________________
Shri Mahavir Jain Aradhana Kendra
२०४
www.kobatirth.org
[अ. १.
शारीरकमीमांसाभाष्ये स्वरूपमित्यवगम्यते। १“निर्गुणम्” २ “निरञ्जनम्" ३ “अपहतपाप्मा बिजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः " ४" न तस्य कार्य करणं च विद्यते न तत्समवाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च " ५" तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् " ६" स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः "७" सर्वाणि रूपाणि विचित्य धीरः । नामानि कृत्वाऽभिवदन्यदास्ते "८" वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्ण तमसः परस्तात् " " सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि " इत्यादिषु परस्य ब्रह्मणः प्राकृतहेयगुणान् प्राकृत हेयदेहसम्बन्धं तन्मूलकर्मवश्यतासम्बन्धं च प्रतिषिध्य कल्याणगुणान् कल्याणरूपं च वदन्ति । तदिदं स्वाभाविकमेव रूपमुपासकानुग्रहेण तत्प्रतिपत्यनुगुणाकारं देवमनुष्यादिसंस्थानं करोति स्वेच्छयैव परमकारुणिको भगवान्। तदिदमाह श्रुतिः - १०" अजायमानो बहुधा विजायते " इति । स्मृतिश्च ??" अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया । परित्राणाय साधूनां विनाशाय च दुष्कृताम् " इति । साधवो ह्यपासकाःतत्परित्राणये वाद्देश्यम्, आनुषङ्गिकस्तु दुष्कृतां विनाशः, सङ्कल्पमात्रेणापि तदुपपत्तेः । 'प्रकृतिं स्वाम्' इति प्रकृतिः - स्वभावः । १२ स्वमेव स्वभावमास्थाय न संसारिणां स्वभावमित्यर्थः । आत्ममाययेति १३ स्वसङ्कल्परूपेण ज्ञानेनेत्यर्थः । १४" माया वयुनं ज्ञानम्” इति ज्ञानपर्याय
१. आत्मोप ।।
२. श्वेता. ६. १९ ।
३. छा. ८-५-१॥
४.
श्वे. ६-८ ।। ५. वे. ६-७।।
६. श्वे, ६-९॥
७. ८. यजु. आरण. ३-१२. पुरुषसू ॥
Acharya Shri Kailassagarsuri Gyanmandir
९. तै. नारायणीये. १ - अनु. ८ ॥
१०. पुरुषसू ।।
११. गी. ४-६. यजु. आरण. ८ ।। १२. स्वीयमेव स्वभावमा. पा।। १३. स्वसंकल्परूपज्ञानेन, पा।। - १४. वेदनिखण्टौ, धर्म वर्गे. २२ - हो ।
For Private And Personal Use Only