________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
भन्तरधिकरणम्
भाविका धर्मा जीवस्य न सम्भवन्ति ॥
यत्तु शरीरसम्बन्धा जीवातिरिक्त इत्युक्तम्; तदसत्, न हि सशरीरत्वं कर्मवश्यतां साधयति, सत्यसङ्कल्पस्येच्छयाऽपि शरीरसम्बन्धसम्भवात् । अथोच्येत - शरीरं नाम त्रिगुणात्मकप्रकृतिपरिणामरूपभूतसङ्घातः;तत्सम्बन्धश्चापहतपाप्मनस्सत्यसङ्कल्पस्य पुरुषस्येच्छया न सम्भवति, अपुरुषार्थत्वात् । कर्मवश्यस्य तु स्वस्वरूपानभिज्ञस्य कर्मानुगुणफलोपभोगायानिच्छतोऽपि तत्सम्बन्धोऽवर्जनीयः - इति । स्यादेतदेवम् ; यदि गुणत्रयमयः प्राकृतोऽस्य देहस्स्यात्ः स तु स्वाभिमतस्वानुरूपोऽप्राकृत एवेति सर्वमुपपन्नम् ॥
१. गुणनिधिदिव्य. पा।। २. तै, भृ, १ ॥ ४. ऐतरेय, १-१-१॥
Acharya Shri Kailassagarsuri Gyanmandir
एतदुक्तं भवति - परस्यैव ब्रह्मणो निखिलहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपतया सकलेतरविलक्षणस्य स्वाभाविकानवाधिकातिशयासङ्ख्चेयकल्याणगुणगणाश्च सन्ति तद्वदेव स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भतनित्यनिरवद्यनिरतिशयौज्ज्वल्य सौन्दर्यसौगन्ध्य सौकुमार्यलावण्ययौवनाद्यनन्त गुणगणनिधिदिव्यरूपमपि स्वाभाविकमस्ति । तदेवोपासकानुग्रहेण तत्तत्प्रतिपत्त्यनुरूप संस्थानं करोत्यपारकारुण्य सौशील्यवात्सल्यौदार्यजलनिधिः निरस्तनिखिल हेयगन्धोऽपहतपाप्मा परमात्मा परं ब्रह्म पुरुषोत्तमो नारायणः - इति ॥
२ यतो वा इमानि भूतानि जायन्ते " ३ " सदेव सोम्येदमग्र आसीत् " ४" आत्मा वा इदमेक एवाग्र आसीत् "५ "एको ह वै नारायण आसीन्न ब्रह्मा नेशानः" इत्यादिषु निखिल जगदेककारणतयाऽवगतस्य परस्य ब्रह्मणः ६“ सत्यं ज्ञानमनन्तं ब्रह्म" ७" विज्ञानमानन्दं ब्रह्म " इत्यादिष्वेवम्भूतं
३. छा, ६-२-१।।
५. महोप. १. अ. १ ॥
तै. आन, १॥
२०३
६.
७. बृ. ५-९-२८॥
For Private And Personal Use Only