________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
शारीरकमीमांसाभाष्ये
[अ.१. गित्वं च । मनुष्येष्वप्युपचितपुण्याः केचित् ज्ञानशक्त्यादिभिरधिकतरा दृश्यन्ते । ततश्च सिद्धगन्धर्वादयः। ततश्च देवाः । ततश्चेन्द्रादयः। अतो ब्रह्मादिष्वन्यतम एवैकैकस्मिन् कल्पे पुण्यविशेषेणैवम्भूतमैश्वर्य प्राप्तो जगत्सृष्टयाद्यपि करोतीति जगत्कारणत्वजगदन्तरात्मत्वादिवाक्यमस्मिनेवोपचितपुण्यविशेषे सर्वज्ञे सर्वशक्तौ वर्तते । अतो न जीवादतिरिक्तः परमात्मा नाम कश्चिदस्ति । एवं च सति?"अस्थूलमनण्वहस्वम्" इत्यादयो जीवात्मनस्वरूपाभिप्राया भवन्ति । मोक्षशास्त्राण्यपि तत्स्वरूपतमाप्त्युपायोपदेशपराणि-इति ॥
____-..-(सिद्धान्तः)..... एवं प्राप्तेऽभिधीयते ---अन्तस्तद्धर्मोपदेशात्-अन्तरादित्येऽन्तरक्षिणि च यः पुरुषः प्रतीयते, स जीवादन्यः परमात्मैव ; कुतः १ तद्धर्मोपदेशात् जीवेष्वसम्भवंस्तदतिरिक्तस्यैव परमात्मनो धर्मोऽयमपहतपाप्मत्वादिः२“स एष सर्वेभ्यः पाप्मभ्य उदितः" इत्यादिनोपदिश्यते । अपहतपाप्मत्वं हि अपहतकर्मत्वम् कर्मवश्यतागन्धरहितत्वमित्यर्थः।कर्माधीनसुखदुःखभागित्वेन कर्मवश्या हि जीवाः। अतोऽपहतपाप्मत्वं जीवादन्यस्य परमात्मन एव धर्मः॥
तत्पूर्वकं स्वरूपोपाधिकं लोककामेशत्वम् , सत्यसङ्कल्पत्वादिकम् सर्वभूतान्तरात्मत्वञ्च तस्यैव धर्मः यथाह३ "एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पः" इति, तथा ४'एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति । ५"सोऽकामयत। बहु स्यां प्रजायेयेति"इत्यादिसत्यसङ्कल्पत्वपूर्वकसमस्तचिदचिद्वस्तुसृष्टियोगो निरुपाधिकभयाभयहेतुत्वम्, वाङ्मनसपरिमितिकृतपरिच्छेदरहितानवधिकातिशयानन्दयोग इत्यादयोऽकर्मसम्पाद्यास्वा१. बृ. ५-८-८॥ २. छा. १-६-७॥ ४. सुवाल. ७॥ ३. छा. ८-१-५॥
। ५. ते. आन. ६॥
For Private And Personal Use Only