________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥ ७ ॥ )
यद्यपि मन्दपुण्यानां जीवानां कामाज्जगत्सृष्टिरतिशयितानन्दयोगो भयाभयहेतुत्वमित्यादि न सम्भवति तथापि विलक्षण पुण्यानामादित्येन्द्रप्रजापतिप्रभृतीनां सम्भवत्येवेतीमामाशङ्कां निराकरोति—
अन्तस्तद्धर्मोपदेशात् । १।१।२१॥
इदमानायते च्छान्दोग्ये २" य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यमश्रुर्हिरण्यकेश आपणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्यादिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । तस्यवच साम च गेort इत्यधिदैवतम् " ३" अथाध्यात्मम् अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तदुक्थ्यं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम " इति ॥
तत्र सन्दिह्यते--- किमयमक्ष्यादित्यमण्डलान्तर्वतीं पुरुषः पुण्यापचयनिमित्तैश्वर्य आदित्यादिशब्दाभिलप्यो जीव एव; आहोस्वित्तदतिरिक्तः परमात्मा - इति । किं युक्तम् ?
उपचितपुण्यो जीव एवेति । कुतः ? सशरीरत्व श्रवणात् । शरीरसम्बन्धो हि जीवानामेव सम्भवति । कर्मानुगुणप्रियाप्रिययोगाय हि शरीरसम्बन्धः । अत एव हि कर्मसम्बन्धरहितस्य मोक्षस्य प्राप्यत्वमशरीरत्वेनोच्यते ४" न ह वै स शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः" इति । सम्भवति च पुण्यातिशयात् ज्ञानाधिक्यम्, शक्त्याधिक्यञ्च । अत एव लोककामेशत्वादि तस्यैवोपपद्यते । ५ तत एव चोपास्यत्वम्, फलदायित्वम्, पापक्षपणकरत्वेन मोक्षोपयो
९. इत्यादीनि न सम्भवन्ति पा॥
२. छा. १-६-६-७-८ ॥ ३, छा, १-७-५॥
26
४. छा. ८-१२-१॥
५. अत एवोपास्यत्वं फलदायित्वं च पा
For Private And Personal Use Only