________________
Shri Mahavir Jain Aradhana Kendra
२००
www.kobatirth.org
वेदान्तदीपे
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यगात्मनः परिशुद्धं स्वरूपं मन्त्रवर्णोदितमित्याशङ्कयाह
नेतरोऽनुपपत्तेः । १।१।१७॥
परस्माद्ब्रह्मणः, इतरः प्रत्यगात्मा न मन्त्रवर्णोदितः, तस्य १ " विपश्चिता ब्रह्मणा " इति विपश्चित्त्वानुपपत्तेः ; विविधं पश्यश्वित्त्वं हि विपश्चित्त्वम् । तच्च २" सोऽकामयत । बहु स्यां प्रजायेय" इत्यादिवाक्यादितनिरुपाधिक बहुभवनसङ्कल्परूपं सर्वशत्वम् । तत्तु प्रत्यगात्मनः परिशुद्धस्यापि न सम्भवति, ३ “जगयापारवर्ज प्रकरणादसन्निहितत्वाच्च" इति वक्ष्यमाणत्वात् । अतः परं ब्रह्मैव मान्त्रवर्णिकम् ॥ १७ ॥
१. तै. आन. १॥
२. तै. आन. ६ ॥
३. शारी. ४-४-१७.
[अ. १.
भेदव्यपदेशाच्च । १ । १ । १८ ॥
४'' भीषास्माद्वातः पवते" इत्यादिना अग्निवायुसूर्यादि जीववर्गस्य आनन्दमयात्प्रशासितुः प्रशासितव्यत्वेन भेदो व्यपदिश्यते। अतश्चानन्दमयः परमात्मेति । योजनान्तरम् ५ " तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः” इति विज्ञानमयाजीवादानन्दमयस्य भेदो व्यपदिश्यते । विज्ञानमयो हि जीव एव । न बुद्धिमात्रम्, मयट्छ्रुतेः अतञ्चानन्दमयः परमात्मा ॥ १८ ॥
कामाच्च नानुमानापेक्षा । १।१।१९ ॥
२" सोऽकामयत" इत्यारभ्य ६" इदं सर्वमसृजत" इति कामादेव जगत्सश्रवणात् अस्यानन्दमयस्य जगत्सर्गे नानुमानगम्यप्रकृत्यपेक्षा प्रतीयते । प्रत्यगात्मनो यस्य कस्यचिदपि सर्गे प्रकृत्यपेक्षास्ति । अतश्चायं प्रत्यगात्मनोऽन्यः परमात्मा ॥ १९ ॥
अस्मिन्नस्य च तद्योगं शास्ति । १।१।२० ॥
७" रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति" इति अस्मिन् -आनन्दमये रसशब्दनिर्दिष्टे, अस्य - अयंशब्दनिर्दिष्टस्य जीवस्य, तल्लाभादानन्दयोगं शास्ति शास्त्रम् । प्रत्यगात्मनो यल्लाभादानन्दयोगः, स तस्मादन्यः परमात्मैवे - त्यानन्दमयः परं ब्रह्म ॥ २० ॥
इति वेदान्तदीपे आनन्दमयाधिकरणम् || ६ ||
For Private And Personal Use Only
४. तै. आन. ८. ५. तै. आन. ५.१ ॥
६.
तै. आन. ६-२.
७. तै. आन. ७-१.