SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] भानन्दमयाधिकरणम् . कारणतयाऽवगत एवानमयस्य शारीर आत्मेति प्रतीयते, १आत्मान्तरानिर्देशात् । श्रुत्यन्तरेषु पृथिव्यक्षरादीनां शरीरत्वं परमात्मन आत्मत्वश्च श्रूयते २ “यस्य पृथिवी शरीरम्" इत्यारभ्य,३"एष सर्वभूतान्तरात्माऽपहतपाप्मा दि. व्यो देव एको नारायणः" इति अन्नमयस्यात्मैव प्राणमयादिषु४"तस्यैष एव शारीर आत्मा।यः पूर्वस्य” इत्यनुकृष्यत इति प्रत्यगात्मनो विज्ञानमयस्य च स एव शारीर आत्मा । आनन्दमये तु ४"तस्यैष एव शारीर आत्मा। यः पूर्वस्य" इति निर्देशः आनन्दमयस्यानन्यात्मत्वप्रदर्शनार्थः । अतो जगत्कारणतया निर्दिष्ट आनन्दमयः परमात्मैवेति ॥ सूत्रार्थस्तु-आनन्दमयशब्दनिर्दिष्टः आकाशादिजगत्कारणभूतः प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मा । कुतः? तस्यानन्दस्य निरतिशयत्वप्रतीतिबलात् । ५"स एको मानुष आनन्दः । ते ये शतम्" इत्याद्यभ्यासात् , तस्य च प्रत्यगात्मन्यसम्भावितस्य तदतिरिक्ते परमात्मन्येव सम्भवात् ॥ १३॥ विकारशब्दान्नेति चेन्न प्राचुर्यात्।।१।१४॥ ६'आनन्दमयः” इति विकारार्थान्मयट्च्छब्दानायमविकृतः परमात्मा । अस्य च विकारार्थत्वमेव युक्तम्,७"अन्न....मयः''इति विकारोपक्रमादिति चेन्न, प्रत्यगात्मन्यपि ८"न जायते म्रियते वा"९इत्यादिविकारप्रतिषेधात्प्राचुर्यार्थएवायं मयडिति निश्चयात् । अस्मिश्चानन्दे, १०"यतो वाचो निवर्तन्ते" इति वक्ष्यमाणात्प्राचुर्यादयमानन्दप्रचुरः परमात्मैव । न ह्यनवधिकातिशयरूपाप्रभू सानन्दः प्रत्यगात्मनि सम्भवति ॥१४॥ तद्धेतुव्यपदेशाच्च । १।१।१५॥ ११“एष ह्येवानन्दयाति" इति जीवान्प्रत्यानन्दयितृत्वव्यपदेशाचार्य परमात्मैव ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते । १।१।१६॥ १२"सत्यं शानमनन्तं ब्रह्म'इति मन्त्रवर्णोदितं ब्रह्मैव,१३"तस्माद्वा एतस्मादात्मनः" इत्यारभ्य १४"आनन्दमयः” इति च गीयते; ततश्चानन्दमयो ब्रह्म ॥ १. आनन्दमयस्य आत्मा. पा॥ ९. इति विकार. पा. २, ३. सुबाल. ७. ४. तै. आन ५.१०. ते. आन. ९. ११. तै. आ.७-१. ५. ते. आन.८. ६. ते, आन. ५. १२. तै. आ. १. १३. तै. आ. १. ७.तै.आन.१॥ ८.कठवल्ल्यां . १-२-१८. १४. ते. आन. ५. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy