SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ वेदान्तदीपे [म. १. इतश्च कामाच्च नानुमानापेक्षा। १॥ १॥१९॥ १" सोऽकामयत । बहु स्याम्" इति स्वकामादेवास्य जगत्सर्गश्श्रूयते । प्रत्यगात्मनो हि यस्य कस्यचित्सर्गे आनुमानापेक्षा दृश्यते । अनुमानगम्यं प्रधानम् आनुमानम् ॥ १९ ॥ इतश्चअस्मिन्नस्य च तद्योगं शास्ति।१।१॥२०॥ अस्मिन् - आनन्दमये, अस्य - प्रत्यगात्मनः, आनन्दयोग शास्ति २"रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति"-~-इति । अतः प्रत्यगात्मनोडर्थान्तरभूतः सर्वज्ञः पुरुषोत्तमः जगत्कारणभूतः आनन्दमयः॥२०॥ इति वेदान्तसारे आनन्दमयाधिकरणम् ॥ ६ ॥ Maacscnm --..(वेदान्तदीपे आनन्दमयाधिकरणम् ॥ ६॥).-.. आनन्दमयोऽभ्यासात्।१।१।१३॥ तैत्तिरीयके–३"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इति प्रकृत्य ४"तस्माद्वा एतस्माद्विज्ञानमयात्।अन्योऽन्तर आत्माऽऽनन्दमयः” इत्यत्र जगकारणतयाऽवगत आनन्दमयः किं प्रत्यगात्मा? उत परमात्मेति संशयः।५प्रत्यगात्मेति पूर्वः पक्षः । कुतः ? ६"तस्यैष एव शारीर आत्मा" इति आनन्दमयस्य शारीरत्वश्रवणात् । शारीरो हि शरीरसम्बन्धी । स च प्रत्यगात्मैव । तस्य चेतनत्वेनेक्षापूर्विका च सृष्टिरुपपद्यत इति । राद्धान्तस्तु-- ७ "सैषाऽनन्दस्य मीमांसा भवति" इत्यारभ्य,“यतो वाचो निवर्तन्ते। अप्राप्य मनसा सह।आनन्दं ब्रह्मणो विद्वान्" इति निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्दः प्रत्यगात्मनोऽर्थान्तरभूतस्य परस्यैव ब्रह्मण इति निश्चीयते । शारीरात्मत्वञ्च परमात्मन एव, ९"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इत्याकाशादिजग१. ते. आन, ६॥ ५. किंयुक्तम् । प्रत्यगात्मेति. पा. २. ते. आन, ७-१॥ ६. ते. आन। ७. ते, आन. ८॥ ३. ते. आन. १॥ ४. ते. आन. ५॥ ८. ते. आन. ९॥ ९. ते. आन, १॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy