SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. आनन्दमयाधिकरणम्. रणे च विकारार्थत्वं प्राणमय एव परित्यक्तम् । उक्तेन न्यायेन आनन्दप्राचुर्यात् परमपुरुष एवायमानन्दमयः ॥ १४ ॥ तद्धेतुव्यपदेशाच्च । १।१।१५॥ १“एष धेवानन्दयाति" इति जीवान्प्रत्यानन्दहेतुरयमानन्दमयो व्यपदिश्यते; अतश्चायं न प्रत्यगात्मा ॥ १५ ॥ मान्त्रवर्णिकमेव च गीयते ।।१।१६॥ २"सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रवर्णोदितमेव३"तस्माद्वा एतस्मात्" इत्यादिना आनन्दमय इति गीयते ; अतश्च न प्रत्यगात्मा ॥ १६ ॥ नेतरोऽनुपपत्तेः।१।१११७॥ इतरः,प्रत्यगात्मा मन्त्रवर्णोदित इति नाशङ्कनीयम् , ४"सोऽभुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति प्रत्यगात्मनो बद्धस्य मुक्तस्य च ईदृशविपश्चित्त्वानुपपत्तेः। ५“सोऽकामयत। बहु स्यां प्रजायेय" इति विचित्रस्थिरत्रसरूपबहुभवनसङ्कल्परूपमिदं विपश्चित्त्वमिति हत्तरत्र व्यज्यते। मुक्तस्य सवंशस्यापि जगद्व्यापाराभावादीदृशविपश्चित्त्वासम्भवः ॥१७॥ इतश्च शाच्च।१।१।१८॥ ६" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः" इति हि विज्ञानमयात् प्रत्यगात्मनो भेदेनायमानन्दमयो व्यपदिश्यते । नच विज्ञानमयविषयतया उदाहृतश्लोके ७"विज्ञानं यज्ञं तनुते" इति व्यपदेशात विज्ञानमयो बुद्धिमानमित्याशङ्कनीयम् ; यतस्सूत्रकार एव इमामाशङ्कां परिह रिष्यति ८"व्यपदेशाच क्रियायां न चेन्निर्देशविपर्ययः" इति । ७"विज्ञानं यज्ञ तनुते” इति यज्ञादिक्रियायां जीवस्य कर्तृत्वव्यपदेशाच्च जीवः कर्ता। विज्ञानश ब्देन जीवस्याप्युपदेशे बुद्धिमात्रव्यपदेशे च विज्ञानेनेति निर्देशविपर्ययस्स्यात् बुद्धेः करणत्वादिति ॥१८॥ १. ते, आन. ७-१. अनु।। ६. ते. आन. ५॥ ७. ते. मान, ५॥ २. ते. आन. १॥ ३. ते. आन. १॥ ८. शारी. २-३-३५॥ ४. ते. आन. १॥ ५. ते. आन. ६॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy