________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
वेदान्तसारे
[ अ. १.
पादनात् " आनन्दो ब्रह्म" इत्यप्यानन्दमयस्यैव प्रतिपादनमिति विज्ञाय - ते; तत एव च तत्रापि २ “आनन्दमयमात्मानमुपसङ्क्रम्य" इत्युपसंहृतम् । अतः प्रधानशब्दाभिलप्यादर्थान्तरभूतस्य परस्य ब्रह्मणो जीवशब्दाभिलपनीयादपि वस्तुनोऽर्थान्तरत्वं सिद्धम् || २० ॥
इति श्रीशारीरकमीमांसाभाष्ये आनन्दमयाधिकरणम् || ६ ||
-. ( वेदान्तसारे आनन्दमयाधिकरणम् || ६ || )
आनन्दमयोऽभ्यासात्। १॥ ११३ ॥
यद्यपि प्रधानादर्थान्तरभूतस्य प्रत्यगात्मनश्चेतनस्य ३ ईक्षणगुणयोगस्सम्भवति, तथाऽपि प्रत्यगात्मा बद्धो मुक्तश्च न जगत्कारणम्, ४" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इत्यारभ्य, ५" तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽऽनन्दमयः " ६इत्यस्य आनन्दमयत्वप्रतिपादनात् कारणतया व्यपदिष्टोऽयमानन्दमयः प्रत्यगामिनो ऽर्थान्तरभूतः सर्वज्ञः परमात्मैव । कुतः अभ्या सात् -- आनन्दमयस्य निरतिशयदशाशिरस्कानन्दमयत्वेनाभ्यासात् । ७" ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः "८" यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह। आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन" इति हि वेद्यत्वेनायमानन्दमयोऽनवधि कातिशयोऽभ्यस्यते ॥ १३ ॥
विकारशब्दान्नेति चेन्न प्राचुर्यात् | १|१|१४||
Acharya Shri Kailassagarsuri Gyanmandir
९स वा एष पुरुषोsन्नरसमयः' इति विकारार्थमयट्प्रकरणात् १० "आनन्दमयः" इत्यस्यापि विकारार्थत्वं प्रतीयते । अतोऽयमानन्दमयः नाविकाररूपः परमात्मा, इति चेन्न अर्थविरोधात् प्राचुर्यार्थ एवायं मयडिति विज्ञायते, ४"तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" इति ह्यविकार आत्मा प्रकृतः । प्रक
१. तै. भृ. ६-१॥ २. तै. आन. १०-५॥
३. ईक्षणयोग:, पा.
४. तै. आन. १, अनु|| ५. तै. आन. ५ ॥
६. इति तस्य. पा.
तै. आन. ९॥
८.
१०. तै. आन. ५-२॥
For Private And Personal Use Only
७. तै. आन. ८.४ ॥ ९. तै. आन. १॥