SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्, जीवस्याविद्यापरवशस्य जगत्कारणत्वे ह्यवर्जनीया आनुमानिकप्रधानादिशब्दाभिधेयाचिद्वस्तुसंसर्गापेक्षा तथैव हि चतुर्मुखादीनां कारणत्वम् इह च १"सोऽकामयत। बहु स्यां प्रजायेय" इत्यचित्संसर्गररहितस्य स्वकामादेव विचित्रचिदचिद्वस्तुनस्सृष्टिः ३ "इदं सर्वमसृजत। यदिदं किञ्च" इत्याम्नायते। अतोऽस्यानन्दमयस्य जगत्सृजतो नानुमानिकाचिद्वस्तुसंसर्गापेक्षा प्रतीयते। ततश्च जीवादन्य आनन्दमयः ॥ १९ ॥ इतश्च अस्मिन्नस्य च तद्योगं शास्ति।१।१॥२०॥ अस्मिन्-आनन्दमये,अस्य-जीवस्य, तद्योगम्-आनन्दयोगम् , शास्ति शास्त्रम् -- ४"रसो वै सः। रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति" इति। रसशब्दाभिधेयानन्दमयलाभादयं जीवशब्दाभिलपनीय आनन्दी भवतीत्युच्यमाने यल्लाभाद्य आनन्दी भवति, स स एवेत्यनुन्मत्तः को ब्रवीतीत्यर्थः॥ __एवमानन्दमयः परं ब्रह्मेति निश्चिते सति ५" यदेष अकाश आनन्द:"६"विज्ञानमानन्दं ब्रह्म" इत्यादिष्वानन्दशब्देनानन्दमय एव परामश्यते। यथा विज्ञानशब्देन विज्ञानमयः। अत एव 'आनन्दं ब्रह्मणो विद्वान्" इति व्यतिरेकनिर्देशः। अत एव च " आनन्दमयमात्मानमुपसङ्कामति" इति फलनिर्देशश्च । उत्तरे चानुवाके पूर्वानुवाकोक्तानामअमयादीनाम् ९ "अन्नं ब्रह्मेति व्यजानात्"१० "प्राणो ब्रह्मेति व्यजानात्" ११"मनो ब्रह्मेति व्यजानात्"१२ "विज्ञानं ब्रह्मेति व्यजानात् "इति प्रति १.ते.आन.६-अनु।। २. रहितस्य तस्य.पा।। ७. ते. आन. ९.१॥ ८. तै. आन.८-५॥ ३. ते. आन. ६-२॥ ९. ते. भृ. २॥ १०. ते. भृ. ३॥ ४. तै. आन. ७-१॥ ५. तै. आन. ७॥ ११. तै. भृ. ४-अनु।। ६.. ५. ९. २८॥ १२. तै. भृ. ५-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy