________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९४ शारीरकमीमांसाभाष्ये
[.१ दित्यादीनां प्रशासितृत्वं शतगुणितोत्तरक्रमेण निरतिशयानन्दत्वमन्यच्चानेकं प्रतिपाद्य वाङमनसयोः ब्रह्मणि प्रवृत्त्यभावेन निष्पमाणकं ब्रह्मेत्युच्यत इति भ्रान्तजल्पितम् । १" यतो वाचो निवर्तन्ते" इति यच्छब्दनिर्दिष्टमर्थम् २“आनन्दं ब्रह्मणो विद्वान्" इत्यानन्दशब्देन प्रतिनिर्दिश्य तस्य ब्रह्मसम्बन्धित्वं ब्रह्मण इति व्यतिरेकनिर्देशेन प्रतिपाद्य तदेव वाड्मनसागोचरं 'विद्वान्'इति तद्वेदनमभिदधद्वाक्यं जरद्गवादिवाक्यवदन थकं वाच्यनन्तर्गतं च स्यात् । - अतश्शतगुणितोत्तरक्रमेण ब्रह्मानन्दस्यातिशयेयत्तां वक्तुमुद्यम्य तस्येयत्ताया अभावादेव वाङमनसयोस्ततो निवृत्तिः १“यतो वाचो निवर्तन्ते"इत्युच्यते । एवमियत्तारहितं 'ब्रह्मण आनन्दं विद्वान् कुतश्चन न बिभेति' इत्युच्यते।किञ्च अस्य मान्नवर्णिकस्य विपश्चितः४"सोऽकामयत" इत्यारभ्य ५वक्ष्यमाणस्वसङ्कल्पावकृप्तजगज्जन्मस्थितिजगदन्तरात्मत्वादेमुक्तात्मस्वरूपादन्यत्वं सुस्पष्टमेव ॥ १७ ॥ इतश्चोभयावस्थात्प्रत्यगात्मनोऽन्य आनन्दमयः--
भेदव्यपदेशाच्च।१।१।१८॥ ६"तस्माद्वा एतस्मादात्मन आकाशः" इत्यारभ्य मान्त्रवर्णिकं ब्रह्म व्यञ्जयद्वाक्यमनप्राणमनोभ्य इव जीवादपि तस्य भेदं व्यपदिशति "तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः"इति । अतो जीवाद्भेदस्य व्यपदेशाच्चायं मान्त्रवर्णिक आनन्दमयोऽन्य एवेति ज्ञायते।। ___ इतश्च जीवादन्यः
कामाच्च नानुमानापेक्षा । १११॥१९॥ १. ते. आन. ९. अनु॥
५. वक्ष्यमाणस्य स्व. पा।। २. तै. आन. ९॥ ३. वाचकानन्त र्ग. पा. ६. ते. आन, १॥ ४. ते. आन. ६॥
। ७. ते. आन, ५॥ ८. विज्ञायते. पा।
For Private And Personal Use Only