SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १९२ www.kobatirth.org शारीरकमीमांसाभाष्ये इतश्च जीवादन्य आनन्दमयः परं ब्रह्म १. तै. आन-७. अनु॥ २. जीवानामानन्दहेतु पा॥ ३. . आन- १. अनु|| तद्धेतुव्यपदेशाच्च । १ । १ । १५ ॥ १" को ह्येवान्यात्कः माण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयाति" इति । एष एव जीवानानन्दयतीतिर जीवानन्दहेतुरयं व्यपदिश्यते । अतश्वानन्दयितव्याज्जीवादानन्दयिताऽयमन्य आनन्दमयः परमात्मेति विज्ञायते । आनन्दमय एवात्र आनन्दशब्देनोच्यत इति चानन्तरमेव वक्ष्यते || इतश्च जीवादन्य आनन्दमयः मान्त्रवर्णिकमेव च गीयते । १ । १ ।१६ ॥ ३" सत्यं ज्ञानमनन्तं ब्रह्म" इति मन्त्रवर्णोदितं ब्रह्मवानन्दमय इति गीयते । तत्तु जीवस्वरूपादन्यत् परं ब्रह्म । तथाहि - ४ " ब्रह्मविदामोति परम्" इति जीवस्य प्राप्यतया ब्रह्म निर्दिष्टम् ॥ ५" तदेषाभ्युक्ता " इति -- तत् ब्रह्म, अभिमुखीकृत्य प्रतिपाद्यतया परिगृह्य, ऋगेषा, अध्येतृभिरुक्ता । ब्राह्मणोक्तस्यार्थस्य वैशद्यमनेन मन्त्रेण क्रियत इत्यर्थः, जीवस्योपासकस्य प्राप्यं ब्रह्म तस्माद्विलक्षणमेव । अनन्तरं च ७" तस्माद्वा एतस्मादात्मन अकाशस्सम्भूतः" इत्यारभ्योत्तरोतरैर्ब्राह्मणैर्मन्त्रैश्च तदेव विशदीक्रियते । अतो जीवादन्य आनन्दमयः || अलाह - यद्यप्युपासकात्माप्यस्य भेदेन भवितव्यम् ; तथापि न वस्त्वन्तरं जीवान्मान्त्रवर्णिकं ब्रह्म; किन्तु तस्यैवोपासकस्य निरस्त - समस्तात्रिद्यागन्धनिर्विशेषचिन्मात्रैकरसं शुद्धं स्वरूपम्, तदेव “सत्यं Acharya Shri Kailassagarsuri Gyanmandir ४. ५. ७. तै. आन -१, अनु॥ ६. ब्राह्मणोक्तार्थस्य. पा For Private And Personal Use Only [अ. १.
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy