SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. १.] आनन्दमयाधिकरणम्. १९१ नैतद्युक्तं ; कुतः ? प्राचुर्यात् – परस्मिन् ब्रह्मण्यानन्दप्राचुर्यात् । 'प्राचुर्यार्थे च मयटस्सम्भवात् । एतदुक्तं भवति शतगुणितोत्तरक्रमेणाभ्यस्यमानस्यानन्दस्य जीवाश्रयत्वासम्भवाद्ब्रह्माश्रयोऽयमानन्द इति निश्चिते सति तस्मिन् ब्रह्मणि विकारासम्भवात् प्राचुर्येऽपि मयविधिसम्भवाच्चानन्दमयः परं ब्रह्म इति ॥ Acharya Shri Kailassagarsuri Gyanmandir औचित्यात्प्रयोगप्रौढया च मयटो विकारार्थत्वमर्थविरोधान्न सम्भवति । किञ्च - औचित्यं प्राणमय एवं परित्यक्तम्, तत्र विकारार्थत्वासम्भवात् । अतस्तत्र पञ्चवृत्तेर्वायोः प्राणवृत्तिमत्तामात्रेण प्राणमयत्वम्, प्राणापानादिषु पञ्चसु वृत्तिषु प्राणवृत्तेः प्राचुर्याद्वा । न च प्राचुये मयप्रत्ययस्य प्रौढिर्नास्ति, 'अन्नमयो यज्ञः ' ' शकटमयी यात्रा' इत्यादिषु दर्शनात् || यदुक्तमानन्दमाचुर्यमल्पदुःखसद्भावमवगमयतीतिः तदसत् तत्प्रचुरत्वं हि तत्प्रभूतत्वम्, तच्चेतरस्य सत्तां नावगमयतिः अपि तु तस्याल्पत्वं निवर्तयति । इतरसद्भावासद्भावौ तु प्रमाणान्तरात्रसेयौः इह च प्रमाणान्तरेण तदभावोsवगम्यते ३" अपहतपाप्मा" इत्यादिना । तत्रैतावदेव वक्तव्यं, ब्रह्मानन्दस्य प्रभूतत्वमन्या ४ नन्दस्याल्पत्वमपेक्षत इति । उच्यते च तत् ५ स एको मानुष आनन्दः" इत्यादिना जीवानन्दापेक्षया ब्रह्मानन्दो निरतिशयदशापनः प्रभूत इति ॥ यच्चोक्तं जीवस्यानन्दविकारत्वं सम्भवतीति ; तदपि नोपपद्यते, जीवस्य ज्ञानानन्दस्वरूपस्य केनचिदाकारेण मृद इव घटाद्याकारणे परिणामस्सक लश्रुतिस्मृतिन्यायविरुद्धः । संसारदशायां तु कर्मणा ज्ञानानन्दौ सङ्कचितावित्युपपादयिष्यते । अतश्चानन्दमयो जीवादन्यः परं ब्रह्म । १. प्राचुर्यार्थे मयटस्सं पा २. प्राणवत्सामा. पा॥ ३. छा. ८-१-५॥ ४. आनन्दस्यापत्वापेक्षमिति पा।। तै. आन ८ - अनु|| ५. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy