________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अ. १.
१९०
शारीरकमीमांसाभाग्ये रकमित्यभियुक्तैरभिधीयते । अतो विज्ञानमयाज्जीवादन्य एव परमात्मा आनन्दमयः॥१३॥
आह–नायमानन्दमयो जीवादन्यः, विकारशब्दस्य मयट्प्रत्ययस्य श्रवणात् १"मयड्वैतयोः" इति प्रकृत्य २“नित्यं वृद्धशरादिभ्यः"इति विकारार्थे मयट् स्मयते । वृद्धश्चायमानन्दशब्दः॥
ननु-प्राचुर्येऽपि मयडस्ति ३"तत्पकृतरचने मयद" इतिस्मृतेः। यथा 'अन्नमयो यज्ञः' इति । स एवायं भविष्यति । नैवम् --अन्नमय इत्युपक्रमे विकारार्थत्वं दृष्टम् , अत औचित्यादस्यापि विकारार्थत्वमेव युक्तम् ॥
किश्च-प्राचुर्यार्थत्वेऽपि जीवादन्यत्वं न सिध्यति । तथाहि--- आनन्दप्रचुर इत्युक्ते दुःखमिश्रत्वमवर्जनीयम् । आनन्दस्य हि प्राचुर्य दुःखस्याल्पत्वमवगमयति । दुःखमिश्रत्यमेव हि जीवत्वम्। अत औचित्यप्राप्तविकारार्थत्वमेव युक्तम् ।।
किञ्च-लोके मृण्मयं हिरण्मयं दारुमयमित्यादिषु, वेदे च४"पर्णमयी जुहूः" ५ "शमीमय्यस्युचः" ६"दर्भययी रशना" इत्यादिषु मयटो विकारार्थे प्रयोगबाहुल्यात्स एव प्रथमतरं धियाधिरोहति। जीवस्य चानन्दविकारत्वमस्त्येव । तस्य स्वत आनन्दरूपस्य सतस्संसारित्वावस्था तद्विकार एवेति । अतो विकारवाचिनो मयदप्रत्ययस्य श्रवणादानन्दमयो जीवादनतिरिक्त इति । तदेतदनुभाष्य परिहरतिविकारशब्दान्नेतिचेन्न प्राचुर्यात्। १।१॥१४॥ १. अष्टाध्याय्यां. ४. ३. १४३॥ . ४. यजुषि, ३. कां. ५. प्र, ७, अनु।। २ अष्टाध्याय्यां ४. ३. १४४॥ ३. अष्टाध्याय्यां. ५. ४. २१॥
६. यजुषि, ३. अष्टके, ८, प्र. २, अनु।।
For Private And Personal Use Only