________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
शारीरकमीमांसाभाष्ये
[अ.१. भागिनश्शुद्ध्यशुद्धयुभयावस्था-चेतनादर्थान्तरभूतमशेषहेयप्रत्यनीकानवधि ककल्याणैकतानं परमात्मानमनभ्युपगच्छतो न सम्भवति ॥
अभ्युपगच्छतोऽपि समानाधिकरणपदानां यथावस्थितविशेषणविशिष्टंक्यप्रतिपादनपरत्वाश्रयणे त्वम्पदप्रतिपन्नसकलदोष'भागित्वं परस्य प्रसज्येतेति चेत्-नैतदेवम् , त्वम्पदेनापि जीवान्तर्यामिणः परस्यैवाभिधानात् ॥
एतदुक्तं भवति-सच्छब्दाभिहितं निरस्तनिखिलदोषगन्धं सत्यसङ्कल्पमिश्रानवधिकातिशयासङ्खयेयकल्याणगुणगणं समस्तकारणभूतं परं ब्रह्म ३"बहु स्याम्" इति सङ्कल्प्य तेजोवनप्रमुखं कृत्स्नं जगत्सृष्टा तस्मिन् देवादिविचित्रसंस्थानसंस्थिते जगति चेतनं जीववर्ग स्वकर्मानुगुणेषु शरीरेष्वात्मतया प्रवेश्य स्वयं च स्वेच्छयैव जीवान्तरात्मतयाऽनुप्रविश्य एवम्भूतेषु स्वपर्यन्तेषु देवाद्याकारेषु सङ्घातेषु नामरूपे व्याकरोत् । एवं रूपसङ्घातस्यैव वस्तुत्वं शब्दवाच्यत्वं चाकरोदित्यर्थः । अनेन जीवेनात्मना जीवेन मयेति निर्देशो जीवस्य ब्रह्मात्मकत्वं दर्शयति। ब्रह्मात्मकत्वं च जीवस्य जीवान्तरात्मतया ब्रह्मणोऽप्रवेशादित्यवगम्यते-६"इदं सर्वमसृजत । यदिदं किं च । तत्सृष्ट्वा । तदेवानुमाविशत् । तदनुपविश्य । सच्च त्यच्चाभवत्"इति अवेदं सर्वमिति निर्दिष्टं चेतनाचेतनश्वस्तुद्वयं सत्त्यच्छब्दाभ्यां विज्ञानाविज्ञानशब्दाभ्यां च विभज्य निर्दिश्य चिद्वस्तुन्यपि ब्रह्मणोऽनुप्रवेशाभिधानात् । अत एवं नामरूपव्याकरणात्सर्वे वाचकाश्शब्दा अचिज्जीवविशिष्टपरमात्मवाचिन इत्यवगतम् इति ॥
किश्च "ऐतदात्म्यमिदं सर्वम्" इति चेतनमिश्रं प्रपञ्चम् इदं सर्व१. भागित्वं ब्रह्मण:. पा॥
। ४. देवाथाकारेषु नाम, पा॥ २. निरतिशयकल्याण पा॥
५. प्रवेशादवगम्यते पा॥ ६.ते.आन.६.२॥ ३. छा. ६. २. ३ ; तै. आन. ६॥ । ७. वर्गद्वयं पा॥ ८. छा.६.८.७।।
For Private And Personal Use Only