SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. आनन्दमयाधिकरणम्. १८५ शुक्लां शोभनाक्षीम् ' १“अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत" -इति । एवम् २ 'अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इति ॥ एतदुक्तं भवति—यथा काष्ठैस्स्थाल्यामोदनपचेत्' इत्यनेककारकविशिष्टैका क्रिया युगपत्प्रतीयते; तथा समानाधिकरणपदसङ्घाताभिहितमेकै कारक तत्तत्कारकप्रतिपत्तिवेलायामेवानेकविशेषणविशिष्टं युगपत्प्रतिपन्नं क्रियायामन्वेतीति न कश्चिद्विरोधः 'खादिरैश्शुष्कैः काष्ठस्समपरिमाणे भाण्डे पायसं शाल्योदनं समर्थः पाचकः पचेत् , इत्यादिषु इति ॥ ४यत्तूपात्तद्रव्यकवाक्यस्थगुणशब्दः केवलगुणाभिधायीत्यरुणयेति पदेन केवलगुणस्यैवाभिधानमिति तन्नोपपद्यते, लोकवेदयोव्यवाचिपदसमानाधिकणस्य गुणवाचिनः कचिदपि केवलगुणाभिधानादर्शनात् । उपात्तद्रव्यकवाक्यस्थं गुणपदं केवलगुणाभिधायीत्यप्यसङ्गतम् , 'पटश्शुक्लः' इत्यादिषूपात्तद्रव्यकेऽपि गुणविशिष्टस्यैवाभिधानात् । 'पटस्य शुक्लः' इत्यत्र शौक्ल्यविशिष्टपटाप्रतिपत्तिरसमानविभक्तिनिर्देशकृता; न पुनरुपात्तद्रव्यकत्वकृता । तत्रैव पटस्य शुक्लो भाग:"इत्यादिषु समानविभक्तिनिर्देशे शौक्ल्यविशिष्टद्रव्यं प्रतीयते । यत्पुनः क्रयस्यैकहायन्यवरुद्धतयाऽरुणिन्नः क्रयान्वयो न सम्भवतीति । तदपि विरोधिगुणरहितद्रव्यवाचिपदसमानाधिकरणगुणपदस्य तदाश्रयगुणाभिधानेन क्रियापदान्वयाविरोधादसङ्गतम् । राद्धान्ते चोक्तन्यायेनारुणिम्नश्शाब्दे द्रव्यान्वये सिद्धे द्रव्यगुणयोः क्रयसाधनत्वानुपपत्त्या अर्थात्परस्परान्वयस्सिध्यतीत्यप्यसङ्गतम् । अतो यथोक्त एवार्थः ।। तस्मात् तत्त्वमस्यादिसामानाधिकरण्ये पदद्वयाभिहितविशेषणापरित्यागेनैवैक्यप्रतिपादनं वर्णनीयम् । तत्त्वनाद्यविद्योपहितानवधिकदुःख १. यजुषि. २. काण्डे, २-अनु।। ३. पचति' इत्यने. पा॥ २. यजुषि, ६. १.६॥ ४. यत्तूक्तं-उपात्त. पा 24 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy