SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये हितसर्वलिङ्गकद्रव्याणां प्रदर्शनार्थः । तस्मादेकहायन्यन्वयनियमोऽरु. णिन्नो न स्यात्-इति॥ अत्राभिधीयते—१“अर्थैकत्वे द्रव्यगुणयोरैककान्नियमस्स्यात्" २" अरुणयैकहायन्या" इत्यारुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोस्सामानाधिकरण्येनार्थंकले सिद्धे सत्येकहायनीद्रव्यारुण्यगुणयोररुणयेति पदेनैव विशेषणविशेष्यभावेन सम्बन्धितयाऽभिहितयोः क्रयाख्यैककर्मान्वयाविरोधादरुणिनः क्रयसाधनभूतैकहायन्यन्वयनियमस्स्यात् ।। यद्यकहायन्याः क्रयसम्बन्धवदरुणिमसम्बन्धोऽपि वाक्यावसेयस्स्यात् । तदा वाक्यस्यार्थद्वयविधानं स्यात् । न चैतदस्ति अरुणयेति पदेनैवारुणिमविशिष्टद्रव्यमभिहितम् । एकहायनीपदसामानाधिकरण्येन तस्यैकहायनीत्वमात्रमवगम्यते ; न गुणसम्बन्धः; विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थः; ३“भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्" इति हि सामानाधिकरण्यलक्षणम् ॥ ___ अत एव हि 'रक्तः पटो भवति' इत्यादिष्वकार्थ्यादेकवाक्यत्वम् । पटस्य भवनक्रियासम्बन्धे हि वाक्यव्यापारः; रागसम्बन्धस्तु रक्तपदेनैवाभिहितः; रागसम्बन्धि द्रव्यं पट इत्येतावन्मानं सामानाधिकरण्यावसेयम्। एवमेकेन गुणेन द्वाभ्यां बहुभिर्वा तेनतेन पदेन समस्तेन व्यस्तेन वा विशिष्टमुपस्थाप्य सामानाधिकरण्येन सर्वविशेषणविशिष्टोऽर्थ एक इति ज्ञापयित्वा तस्य क्रियासम्बन्धाभिधानमविरुद्धम् -'देवदत्तइश्यामो युवा लोहिताक्षो दण्डी कुण्डली तिष्ठति ; शुक्लेन वाससा यवनिका सम्पादयेत् ; नीलमुत्पलमानय ; नीलोत्पलमानय ; गामानय १. पूर्वमी, ३-१-१२, २. यजु ६-१-६. ३. कैयटे वृज्याहिके. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy