________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आदन्दमयाधिकरणम्.
दिवच्च विरोधो नोपलभ्यते । न केवलमविरोध एव ; प्रवृत्तिनिमित्तभेदेनैकार्थनिष्ठत्वरूपं सामानाधिकरण्यमुपपादयत्येव धर्मद्वयविशिष्टताम् । अन्यथा स्वरूपमात्रैक्ये अनेकपदप्रवृत्तौ निमित्ताभावात्सामानाधिकरण्य. मेव न स्यात् । विशेषणानां स्वसम्बन्धानादरेण वस्तुस्वरूपोपलक्षणपरत्वे सत्येकेनैव वस्तूपलक्षितमित्युपलक्षणान्तरमनर्थकमेव; उपलक्षणान्तरोपलक्ष्याकारभेदाभ्युपगमे तेनाकारेण सविशेषत्वप्रसङ्गः ॥
१८३
'सोऽयं देवदत्तः' इत्यत्रापि लक्षणागन्धो न विद्यते, विरोधाभावात् । देशान्तरसम्बन्धितयाऽतीतस्य सन्निहितदेशसम्बन्धितया वर्त - मानत्वाविरोधात् । अत एव हि 'सोऽयम्' इति प्रत्यभिज्ञया कालद्वयसम्बन्धिनो वस्तुन ऐक्यमुपपाद्यते वस्तुनस्स्थिरत्ववादिभिः । अन्यथा प्रतीतिविरोधे सति सर्वेषां क्षणिकत्वमेव स्यात् । देशद्वयसम्बन्धविरोधस्तु कालभेदेन परिहियते ||
यतस्समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थवाचित्वम् ; अत एव २" अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यारुण्यादिविशिष्ठैकहायन्या कयस्साध्यतया विधीयते ।
For Private And Personal Use Only
तदुक्तम्- - २" अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमस्स्यात् ” – इति । तत्रैवं पूर्वपक्षी मन्यते—– यद्यप्यरुणयेति पदमाकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावत्वाद्द्रव्यपर्यन्तमेवारुणिमानमभिदधाति ; तथाऽप्येकहायन्यन्वयनियमो ऽरुणिम्नो न सम्भवति ; एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासम्भवात् ॥
ततश्वारुणयेति वाक्यं भित्वा प्रकरणविहितसर्वद्रव्यपर्यन्तमेवारुणिमानमविशेषेणाभिदधाति । अरुणयेति स्त्रीलिङ्गनिर्देशः प्रकरणवि१. रूपस्वे. पा । २. यजु. ६-१-६. ] ३. पूर्वमीमांसासूत्रम् ३-१-१२.. २.