________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१, तै, आन ५॥
२. यजुषि आरण्यके. ३. ११॥
पा. १.]
आनन्दमयाधिकरणम्.
१८७
-
मिति निर्दिश्य १ " तस्यैष आत्मा" इति प्रतिपादितम् । एवंच सर्व चेतनाचेतनं प्रति ब्रह्मण आत्मत्वेन सर्वे सचेतनं जगत् तस्य शरीरं भवति । तथा च श्रुत्यन्तराणि २ " अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" ३" यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद । यस्य पृथिवी शरीरम् । यः पृथिवीमन्तरो यमयति । स त आत्माऽन्तर्याम्यमृतः" इति प्रारभ्य४"य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम् | य आत्मानमन्तरो यमयति । स त आत्माऽन्तर्याम्यमृतः" इत्यादि ५" यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरम् । योऽपामन्तरे सञ्चरन् यस्यापश्शरीरम्" इत्यारभ्य ६" योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरम् । यमक्षरं न वेद । एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादीनि सचेतनं जगत् तस्य शरीरत्वेन निर्दिश्य तस्यात्मत्वेन परमात्मानमुपदिशन्ति । अतश्वेतनवाचिनोऽपि शब्दाचेतनस्याप्यात्मभूतं चेतनशरीरकं परमात्मानमेवाभिदधति । यथा अचेतनदेवादिसंस्थानपिण्डवाचिनश्शब्दाः तत्तच्छरीरकजीवात्मन एव वाचकाः ७' चत्वारः पञ्चदशरात्राद्देवत्वं गच्छन्ति" इत्यादिषु देवा भवन्तीत्यर्थः। शरीरस्य शरीरिणं प्रति प्रकारत्वात् 'प्रकारवाचिनां च शब्दानां प्रकारियेव पर्यवसानात् शरीरवाचिनां शब्दानां शरीरिपर्यवसानं न्याय्यम् । प्रकारो हि नाम इदमित्थमिति प्रतीयमाने वस्तुनि इत्थमिति प्रतीयमाaiशः । तस्य त्वपेक्षत्वेन तत्प्रतीतेस्तदपेक्षत्वा तस्मिन्नेव पर्य वसानं युक्तमिति तस्य प्रतिपादकोऽपि शब्दस्तस्मिन्नेव पर्यवस्यति । अत एव 'गौरवो मनुष्यः' इत्यादिप्रकार भूताकृतिवाचिनश्शब्दाः प्रकारिणि
५, ६, सुबाल ७|
३.५, ७, ३॥
४, बृ. ५,७, २२, माध्यन्दिनपाठोऽयम् ||
Acharya Shri Kailassagarsuri Gyanmandir
७.
८. प्रकारवाचिनां शब्दानां पा||
९. शरीराभिधायिनां पा।।
For Private And Personal Use Only