________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
आनन्दमयाधिकरणम् . १"येनाश्रुत्रं श्रुतं भवति" इत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय २ "सदेव सोम्येदमग्रआसीत्" इत्यादिना निखिलजगदेककारणताम्,३"तदक्षत बहु स्याम्" इति सत्यसङ्कल्पतां च ब्रह्मणः प्रतिपाद्य तस्यैव ब्रह्मणः ४"तत्वमसि" इति सामानाधिकरण्येनानन्तदुःखाश्रयजीवैक्यं प्रतिपादितम् ; तदन्यथानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वादि परिकल्पनीयमिति चेत् --श्रुतोपपत्तयेऽप्यनुपपन्नं विरुद्धं च न कल्पनीयम् । अथ हेयसम्बन्ध एव पारमार्थिकः, कल्याणकस्वभाव तु मिथ्याभूता ; हन्तैवं तापत्रयाभिहतचेतनोजिजीवयिषया प्रवृत्तं शास्त्रम् , तापत्रयाभिहतिरेव तस्य पारमार्थिकी, कल्याणकखभावस्तु भ्रान्तिपरिकल्पित इति बोधयत्सम्यगुज्जीवयति । अथैतदोषपरिजिहीर्षया ब्रह्मणो निर्विशेषचिन्मानस्वरूपातिरिक्तजीवत्वदुःखित्वादिकं सत्यसङ्कल्पत्वकल्याणगुणाकरत्वजगत्कारणत्वाद्यपि मिथ्याभूतमिति कल्पनीयमिति चेत् --अहो भवतां वाक्यार्थपर्यालोचनकुशलता । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सर्वस्य मिथ्यात्वे सर्वस्य ज्ञातव्यस्याभावान्न पसेत्स्यति । यथैकविज्ञानं परमार्थविषयम् , तथैव सर्वविज्ञानमपि यदि परमार्थविषयम् । तदन्तर्गतं च तदा तज्ज्ञानेन सर्वविज्ञानमिति शक्यते वक्तुम् । न हि परमार्थशुक्तिकाज्ञानेन तदाश्रयमपरामर्थरजतं ज्ञातं भवति।अथोच्येत एकविज्ञानेन सर्व विज्ञानप्रतिज्ञाया अयमर्थः-निर्विशेषवस्तुमानमेव सत्यम्, अन्यदसत्यम् - इति । न तर्हि ? "येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्"इति श्रूयेतः येन श्रुतेनाश्रुतमपि श्रुतं भवतीति यस्य वाक्यस्यार्थः। कारणतयोपलक्षितनिर्विशेषवस्तुमात्रस्यैव सद्भावश्चमतिज्ञातः, ६"यथा सोम्यैकेन मृत्पि
१. छा. ६. १. ३. २. छा. ६. २. १. ३, छा. ६.२.३.
४. हा. ६. ८. ७. ५. संपत्स्यते. पा. ६. छा. ६.१. ४
For Private And Personal Use Only