________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाष्ये
[अ. १. ण्डेन सर्व मृण्मयं विज्ञातम्" इति दृष्टान्तोऽपि न घटते । मृत्पिण्डविज्ञानेन हि तद्विकारस्य ज्ञातता निदर्शिता । तत्रापि विकारस्यासत्यताभिप्रेतेति चेत्-मृद्विकारस्य रज्जुसादिवदसत्यत्वं शुश्रूषोरसिद्धमिति प्रतिज्ञातार्थसम्भावनाप्रदर्शनाय ? "यथा सोम्य"इति प्रसिद्धवदुपन्यासो न युज्यतेन च तत्त्वमस्यादिवाक्यजन्यज्ञानोत्पत्तेः प्राग्विकारजातस्यासत्यतामापादयत्तानुगृहीतमननुगृहीतं वा प्रमाणमुपलभामह इति । अयमर्थः २ "तदनन्यत्वमारम्भणशब्दादिभ्यः" इत्यत्र वक्ष्यते।तथा ३ “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" ४ तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत"५ 'हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुमविश्य नामरूपे व्याकरवाणि"६ "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सप्रतिष्ठाः...ऐतदात्म्यमिदं सर्वम्" इत्यादिनाऽस्य जगतस्सदात्मकता, सृष्टेः पूर्वकाले नामरूपविभागप्रहाणम् , जगदुत्पत्तौ सच्छब्दवाच्यस्य ब्रह्मणस्वव्यतिरिक्तनिमित्तान्तरानपेक्षत्वम् , सृष्टिकालेऽहमेवानन्तस्थिरत्नसरूपेण बहुस्याम् इत्यनन्यसाधारणसङ्कल्पविशेषः, यथासङ्कल्पमनन्तविचित्रतत्त्वानां विलक्षणक्रमविशेषविशिष्टा सृष्टिः समस्तेष्वचेतनेषु वस्तुषु स्वात्मकजीवानुप्रवेशेनैवानन्तनामरूपव्याकरणम् , स्वव्यतिरिक्तस्य समस्तस्य स्वमूलत्वम् , स्वायतनत्वम् , स्वपवर्त्यत्वम् , खेनैव जीवनम् , स्वप्रतिष्ठत्वमित्यायनन्तविशेषाशास्त्रैकसमधिगम्याः प्रतिपादिताः। तत्सम्बन्धितया प्रकरणान्तरेष्वप्यपहतपाप्मत्वादिनिरस्तनिखिलदोषतासर्वज्ञतासर्वेश्वरत्वसत्यकामत्वसत्यसङ्कल्पत्वसर्वानन्दकरणनिरतिशयानन्दयोगादयस्सकलेतरपमाणाविषयास्सहस्रशः प्रतिपादिताः ।
१. छा. ६. १. २. शारी. २. १. १५. ३. छा, ६. २. १. ४. छा. ६. २. ३.
५. छा, ६, ३. २. . ६. छा, ६. ८. ६. ७. प्रवेशेनानन्त . पा.
For Private And Personal Use Only