SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ १. जीवस्वरूपान्नातिरिच्यत इति कृत्वा जीवस्यैव स्वरूपं १ ब्रह्मविदाप्नोति परम्" इति प्रक्रान्तमसुखाच्यावृत्तत्वेनाऽनन्दमय इत्युपदिश्यत इति ; तदयुक्तम्, जीवस्य चेतनत्वे सत्यपि २" तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत" इति स्वसङ्कल्पपूर्वकानन्तविचित्रसृष्टियोगानुपपत्तेः । शुद्धावस्थस्यापि हितस्य सर्गादिजगव्यापारासम्भवो ३" जगव्यापारवर्जम् " ४" भोगमात्रसाम्यलिङ्गात् ४" भोगमात्रसाम्यलिङ्गात् " इत्यत्रोपपादयिष्यते । कारणभूतस्य ब्रह्मणो जीवस्वरूपत्वानभ्युपगमे "अनेन जीवेनाऽत्मना " ६ "तत्त्वमसि' इति सामानाधिकरण्यनिर्देशः कथमुपपद्यत इति चेत् कथं वा निरस्तनिखिलदोषगन्धस्य सत्यसङ्कल्पस्य सर्वज्ञस्य सर्वशक्तेरनवधिकातिशयासङ्घयेयकल्याणगुणगणस्य सकलकारणभूतस्य ब्रह्मणः नानाविधानन्तदुःखाकर कर्माधीनचिन्तितनिमिषितादिसकलप्रवृत्तिजीवस्वरूपत्वम् ? । अन्यतरस्य मिथ्यात्वेनोपपद्यत इति चेत् कस्य भोः? । किं सम्बन्धस्य ? किंवा हेयमत्यनीककल्याणैकतानस्वभावस्य ? | हेयमत्यनीककल्याणैकतानस्य ब्रह्मणोऽनाद्यविद्याश्रयत्वेन हेयसम्बन्धमिथ्याप्रतिभासो मिथ्यारूप इति चेत् — विप्रतिषिद्धमिदमभिधीयते ब्रह्मणो हेयमत्यनीक कल्याणैकतानत्वमनाद्यविद्याश्रयत्वेनानन्तदुःखविषयमिथ्या - प्रतिभासाश्रयत्वं चेति । अविद्याश्रयत्वं तत्कार्यदुःखप्रतिभासाश्रयत्वं चैव हि सम्बन्धः । तत्सम्बन्धित्वं तत्प्रत्यनीकत्वं च विरुद्धमेव । तथाऽपि तस्य मिथ्यात्वान्न विरोध इति मा वोचः । मिथ्याभूतमप्य पुरुषार्थ एव ; यन्निरसनाय सर्वे वेदान्ता आरभ्यन्त इति ब्रूषे । निरसनीयापुरुषार्थयोग हेयप्रत्यनीककल्याणैकतानतया विरुध्यते । किं कुर्मः ? । १. तै. आन. १. २.. छा. ६.२. ३. ३. शारी. ४. ४. १७. Acharya Shri Kailassagarsuri Gyanmandir ४. शारी. ४. ४. २१. ५. छा. ६.३.२. ६. छा. ६.८. ७. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy