________________
Shri Mahavir Jain Aradhana Kendra
पा. १.]
आनन्दमयाधिकरणम्.
१७७
गवादिशब्दवत् । १" कृत्यल्युटो बहुलम्" इति वा कर्तरि ल्युडाश्रीयते । नन्द्यादित्वं वाऽऽश्रित्य २" नन्दिग्रहि" इत्यादिना कर्तरि ल्युः । अत एव च ३" विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च" इति यज्ञादिकर्तृत्वं विज्ञानस्य श्रूयते । बुद्धिमात्त्रस्य हि न कर्तृत्वं सम्भवति । अचेतनेषु हि चेतनोपकरणभूतेषु विज्ञानमयात्माचीनेष्वन्नमयादिषु न चेतनधर्मभूतं कर्तृत्वं श्रूयते । अत एव चेतनमचेतनं च स्वासाधारणैः निलयनत्वानिलयनत्वादिभिर्धर्मविशेषैर्विभज्य निर्दिशद्वाक्यम् "विज्ञानं चाविज्ञानं च" इति विज्ञानशब्देन तद्गुणं चेतनं वदति । तथाऽन्तर्यामिब्राह्मणे ४" यो विज्ञाने तिष्ठन् " इत्यस्य काण्वपाठगतस्य पर्यायस्य स्थाने "यआत्मनि तिष्ठन् " इति पर्यायमधीयाना माध्यन्दिनाः काण्वपाठगतं वि ज्ञानशब्दनिर्दिष्टं जीवात्मेति स्फुटीकुर्वन्ति । विज्ञानमिति च नपुंसकलिङ्गं वस्तुत्वाभिप्रायम् । तदेवं विज्ञानमयाज्जीवादन्यस्तदन्तरः परमात्मा आनन्दमयः । यद्यपि २" विज्ञानं यज्ञं तनुते" इति लोके ज्ञानमात्रमेवोपादीयते; न ज्ञाता ; तथाऽपि ६" अन्योऽन्तर आत्मा विज्ञानमय: " इति तद्वान् ज्ञातैवोपदिश्यते यथा “अन्नाद्वै प्रजाः प्रजायन्ते" इत्यन श्लोके केवलानोपादानेऽपि "स वा एष पुरुषोऽन्नरसमयः" इत्यत्र नानातं निर्दिष्टम् अपितु तन्मयः तद्विकारः । एतत्सर्व हृदि निधाय सूत्रकारस्स्वयमेव ९" भेदव्यपदेशात्" इत्यनन्तरमेव वदति ॥
१. अष्टाध्याय्यां. ३.३. ११३.
२. अष्टाध्यय्यां. ३. १. १३४.
तै. आन. ५. अनु.
Q
यदुक्तं जगत्कारणतया निर्दिष्टस्य १०" अनेन जीवेनाऽत्मनाऽनुप्रविइय" ११" तत्त्वमसि' इति च जीवसामानाधिकरण्यनिर्देशाज्जगत्कारणमपि
३.
www.kobatirth.org
४. बृ.६.७.२२ ॥ ५. विज्ञानस्थाने माध्य
६. तै. आन. ४. १,
न्दिनपाठः ॥
23
Acharya Shri Kailassagarsuri Gyanmandir
७. तै, आन. २.१.
८. तै. आ. १
९. शारी १. १. १८.
१०. छा. ६.३.२.
११. छा. ६,८.७.
For Private And Personal Use Only