SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ शारीरकमीमांसाभाष्ये [अ. १. स्त्वादिरूपणं भविष्यति । एवं च १“सत्यं ज्ञानमनन्तं ब्रह्म" इति विकारास्पदजडपरिच्छिन्नवस्त्वन्तरव्यात्तस्यासुखाद्यावृत्तिरानन्दमय इत्युपदिश्यते । ततश्चाखण्डैकरसानन्दरूपे ब्रह्मण्यानन्दमय इति मयट् प्राणमय इव स्वार्थिको द्रष्टव्यः। तस्मादविद्यापरिकल्पितविविधविचिबदेवादिभेदभिन्नस्य जीवात्मनस्वाभाविक रूपमखण्डैकरसं सुखैकतानमानन्दमय इत्युच्यत इत्यानन्दमयः प्रत्यगात्मा ॥ ...( सिद्धान्तः )--- एवं प्राप्ते प्रचक्ष्महे—आनन्दमयोऽभ्यासात् ---आनन्दमयः परमात्मा। कुतः? अभ्यासात-.३ "सैषाऽऽनन्दस्य मीमांसा भवति" इत्यारभ्य ४'यतो वाचो निवर्तन्ते"इत्येवमन्तेन वाक्येन शतगुणितोत्तरक्रमेण निरतिशयदशाशिरस्कोऽभ्यस्यमान आनन्दः अनन्तदुःखमिश्रपरिमितमुखलवभागिनि जीवात्मन्यसम्भवनिखिलहेयप्रत्यनीकं कल्याणैकतानं सकलेतरविलक्षणं परमात्मानमेव स्वाश्रयमावेदयति ॥ यथाऽऽह ५'तस्माद्वा एतस्माद्विज्ञानमयात्। अन्योऽन्तर आत्माऽऽनन्दमयः" इति विज्ञानमयो हि जीवः; न बुद्धिमात्रम्, मयट्मत्ययेन व्यतिरेकप्रतीतेः । प्राणमयेत्वगत्या स्वार्थिकताऽऽश्रीयते । इह तु तद्वतो जीवस्य सम्भवानानर्थक्यं न्याय्यम् । बद्धो मुक्तश्च प्रत्यगात्मा ज्ञातैवेत्यभ्यधिष्महि । प्राणमयादौ च मयडर्थसम्भवोऽनन्तरमेव वक्ष्यते। कथं तर्हि विज्ञानमयविषयश्लोके ६"विज्ञानं यज्ञं तनुते" इति केवलविज्ञानशब्दोपादानमुपपद्यले । ज्ञातुरेवाऽत्मनस्वरूपमपि स्वप्रकशतया विज्ञानमित्युच्यत इति न दोषः, ज्ञानकनिरूपणीयत्वाच्च ज्ञातुस्वरूपस्य । खरूपनिरूपणधर्मशब्दा हि धमेमुखेन धर्मिस्वरूपमपि प्रतिपादयन्ति, १. ते. आन, १. अनु. १॥ ४. , आन, ९, १ ॥ २. ततश्चाखण्डानन्दैकरस, पा॥ ५. ते. आन. ५, २॥ ३. सै. आन, ८,१॥ ६. सै. आन. ५, १ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy