________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] आनन्दमयाधिकरणम्.
१७५ निर्दिष्टान् प्राणमयादीनतिक्रम्य १" अन्योऽन्तर आत्माऽऽनन्दमयः " इत्यात्मशब्देन निर्देशनानन्दमये समापयति । अत आत्मशब्देन प्रक्रान्तं ब्रह्माऽनन्दमय इति निश्चीयते इति।ननु च --२"ब्रह्म पुच्छं प्रतिष्ठा" इत्युक्त्वा ३"असन्नेव स भवति। असब्रह्मेति वेद चेत्। अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदुः" इति ब्रह्मज्ञानाज्ञानाभ्यामात्मनस्सद्भावासद्भावो दर्शयति ; नानन्दमयज्ञानाज्ञानाभ्याम् । न चानन्दमयस्य प्रियमोदादिरूपेण सर्वलोकविदितस्य सद्भावासद्भावज्ञानाशङ्का युक्ता । अतो नानन्दमयमधिकृत्यायं श्लोक उदाहृतः। तस्मादानन्दमयादन्यद्ब्रह्म । नैवम् -- ४"इदं पुच्छं प्रतिष्ठा"५'पृथिवी पुच्छं प्रतिष्ठा" ६'अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा""महः पुच्छं प्रतिष्ठा" इत्युक्त्वा तत्रतत्रोदाहृताः९“अन्नाद्वैप्रजाः प्रजायन्ते" इत्यादिश्लोका यथा न पुच्छमात्रप्रतिपादनपराः अपि त्वन्नमयादिपुरुषप्रतिपादनपराः ; एवमत्राप्यानन्दमयस्यायम् १०" असन्नेव" इति श्लोकः ; नानन्दमयव्यतिरिक्तस्य पुच्छस्य । आनन्दमयस्यैव ब्रह्मत्वेऽपि प्रियमोदादिरूपेण११रूपितस्यापरिच्छिन्नानन्दस्य सद्भावासद्भाव१२ज्ञानाशङ्का युक्तवा पुच्छब्रह्मणोऽप्यपरिच्छिन्नानन्दतयैव ह्यप्रसिद्धता। शिरःप्रभृत्यवयवित्वाभावाद्ब्रह्मणो नानन्दमयो ब्रह्मेति चेत्-ब्रह्मणः पुच्छत्वप्रतिष्ठात्वाभावात् पुच्छमपि ब्रह्म न भवेत् । अथाविद्यापरिकल्पितस्य वस्तुनस्तस्याश्रयभूतत्वात् ब्रह्मणः पुच्छं प्रतिष्ठेति रूपणमात्रमित्युच्येत ; हन्त तर्हि तस्यासुखाद्यावृत्तस्यानन्दमयस्य ब्रह्मणः प्रियशिर
१. तै. आन. ५. २॥ २. तै. आन. ५. ३॥ ३. तै. आन. ६. १॥ ४. तै. आन. १. ३॥ ५. से. आन, २. ३॥ ६. से. आन. ३. ३॥
७. तै. आन. ४. २॥ ८. इत्येवमुक्त्वा , पा॥ ९. ते, आन. २. १॥ १०. ते. आन. ६. १॥ ११. रूपितस्य तस्याप, पा॥ १२. ज्ञानशङ्का, पा॥
For Private And Personal Use Only