________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७४
शारीरकमीमांसाभाष्ये
[म.. न्तमानन्दमय इत्युपदिश्यते । तथाहि-शाखाचन्द्रन्यायेनाऽत्मस्वरूपं दर्शयितुम् १"अन्नमयः पुरुषः" इति शरीरं प्रथमं निर्दिश्य तदन्तरभूतं तस्य धारकं पञ्चत्तिप्राणम्, तस्याप्यन्तरभूतं मनः, तदन्तरभूतां च बुद्धिं, २'प्राणमयो" ३"मनोमयों' ४"विज्ञानमयः" इति तत्रतत्र बुद्ध्यवतरणक्रमेण निर्दिश्य सर्वान्तरभूतं जीवात्मानम् ५“अन्योऽन्तर आत्माऽऽनन्दमयः" इत्युपदिश्यान्तरात्मपरम्परां समापयति । अतो जीवात्मस्वरूपमेव ६५७ब्रह्मविदाप्नोति" इति प्रक्रान्तं ब्रह्म ; तदेवाऽनन्दमय इत्युपदिष्टमिति निश्चीयते ॥
ननुच-८"ब्रह्म पुच्छं प्रतिष्ठा"इत्यानन्दमयादन्यद्ब्रह्मेति प्रतीयते । नैवं ब्रह्मैव स्वस्वभावविशेषेण पुरुषविधत्वरूपितं शिरःपक्षपुच्छरूपेण व्यपदिश्यते । यथाऽन्नमयो देहोऽवयवी स्वस्मादनतिरिक्तैः स्वावयवैरेव ९"तस्येदमेव शिरः" इत्यादिना शिरःपक्षपुच्छवत्तया निदर्शितः; तथा आनन्दमयं ब्रह्मापि स्वस्मादनतिरिक्तैः प्रियादिभिर्निदर्शितम् । तत्रावयवत्वेन रूपितानां प्रियमोदप्रमोदानन्दानामाश्रयतया अखण्डरूपमानन्दमयं "ब्रह्म पुच्छं प्रतिष्ठा" इत्युच्यते।यदि चानन्दमयादन्यद्ब्रह्माभविष्यत्, ___ 'तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्म'इत्यपि निरदेक्ष्यत। नचैवं निर्दिश्यते। एतदुक्तं भवति- ६"ब्रह्मविदामोति परम्"इति प्रकान्तं ब्रह्म १० "सत्यं ज्ञानमनन्तं ब्रह्म"इतिलक्षणतस्सकलेतरव्यावृत्ताकारं प्रतिपाद्य तदेव १ "तस्माद्वा एतस्मादात्मनः" इत्यात्मशब्देन निर्दिश्य तस्य सर्वान्तरत्वेनाऽत्मत्वं व्यञ्जयद्वाक्यमन्नमयादिषु तत्तदन्तरतया आत्मत्वेन
१. नायं वाक्यानुप्वीनिर्देश:, किन्तु अर्थ. ३ .ते. आन. ३॥ ४. तै. आ. ४॥ कथनमात्रमिति वा, अन्नरसमयः...पुरुष: ५. तें. आन.५.२॥ ६. तै.आन.१।। इति वा पाठ: स्वीकर्तव्यः; तत्र एतादृशवाक्या- ७. ब्रह्मविदाप्नोति परम्” इति. पा॥ नुपलब्धेरिति॥
८. तै.आन.५॥ ९. तै.आन, १, अनु।। २.ते .आन. २. अनु॥
१०. ११. ते. आन. १॥
For Private And Personal Use Only