SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] आनन्दमयाधिकरणम्. १७३ निखिलध्य प्रत्यनीकनिरतिशयानन्दं ब्रह्मेति प्रतिपाद्यते आनन्दमयोऽभ्यासात्।१।१।१३॥ तैत्तिरीया अधीयते--२ “स वा एष पुरुषोऽन्नरसमयः" इति प्रकृत्य ३ "तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽन्तर आत्माऽनन्दमयः" इति । तत्र सन्देहः--किमयमानन्दमयो बन्धमोक्षभागिनः प्रत्यगात्मनो जीवशब्दाभिलपनीयादन्यः परमात्मा; उत स एव-इति ॥ किं युक्तम् ? प्रत्यगात्मेति। कुतः १४"तस्यैष एव शारीर आत्मा" इत्यानन्दमयस्य शारीरत्वश्रवणात् शारीरो हि शरीरसम्बन्धी जीवात्मा ॥ ननु च जगत्कारणतया प्रतिपादितस्य ब्रह्मणः सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्य तदेव जगत्कारणमानन्दमय इत्युपदिशति ; जगत्कारणं च ५“तदैक्षत" इतीक्षणश्रवणात्सर्वज्ञस्सर्वेश्वर इत्युक्तम् ॥ सत्यमुक्तम् स तु जीवानातिरिच्यते-६ “अनेन जीवेनाऽत्मनाऽनुप्रविश्य"७"तत्त्वमसि श्वेतकेतो"इति कारणतया निर्दिष्टस्य जीवसामानाधिकरण्यनिर्देशात्। सामानाधिकरण्यं ह्येकत्वप्रतिपादनपरम् यथा सोऽयं देवदत्तः' इत्यादौ । ईक्षापूर्विका च सृष्टिश्चेतनस्य जीवस्योपपद्यत एव। अतः "ब्रह्मविदामोति परम्" इति जीवस्याचित्संसर्गवियुक्तं स्वरूपं प्राप्यतयोपदिश्यते। अचिद्वियुक्तस्वरूपस्य लक्षणमिदमुच्यते... ९"सत्यं ज्ञानमनन्तं ब्रह्म" इति । तद्रपप्राप्तिरेव हि मोक्षः। १० "न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति । अशरीरंवावसन्तंनप्रियाप्रिये स्पृशतः" इति । अतो जीवस्याविद्यावियुक्तं स्वरूपं प्राप्यतया प्रक्रा१. प्रत्यनीकं निरतिशया, पा ॥ ६. छा. ६. ३. २॥ २. ते. आन.१. अनु॥ ३.ते.आन.५-२॥ : ७. छा. ६. ८. ७॥ ४, ते. आन. ५. अनु।। ८. ९. ते. आन. १॥ ५. छा. ६. २. ३॥ १०. छा. ८. १२. १॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy