________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७० वेदान्तदीपे
[अ. १. इत्यादौ आत्मन एव सर्वोत्पत्तिः; अतः प्रधानादचेतनादर्थान्तरभूतस्सर्वज्ञः पुरुषोत्तम एव जगत्कारणं ब्रह्मेति स्थितम् ॥ १२ ॥
इति वेदान्तसारे ईक्षत्यधिकरणम् ॥ ५ ॥
....( वेदान्तदीपे ईक्षत्यधिकरणम् ॥ ५॥)...
ईक्षते शब्दम्।१।१॥५॥
१" येनाश्रुतं श्रुतं भवति" इत्यादिर जगत्कारणवादिवेदान्तवेद्यं विषयः । तत्किं साङयोक्तं प्रधानम् , उतानवधिकातिशयानन्दं ब्रह्मेति संशयः। प्रधानमिति पूर्वः पक्षः।कुतः? प्रतिज्ञादृष्टान्तान्वयेनानुमानाकारवाक्यवेद्यत्वात् १"ये. नाश्रुतं श्रुतं भवति"३इत्यादिना एकविज्ञानेन सर्वविज्ञानं प्रतिक्षाय ४"यथा सो. म्यैकेन मृत्पिण्डेन" इति दृष्टान्तेन ह्युपपाद्यते । एवमानुमानिकमेवैतद्वाक्यवेधमिति निश्चीयते। ५" सदेव सोम्येदम्” इति सच्छब्दःप्रधानविषयः।" तदैक्षत बहु स्याम्" इति च गौणमीक्षणं भवितुमर्हति,७" तत्तेज ऐक्षत" इत्या. दिगोणेक्षणसाहचर्याञ्च । राद्धान्तस्तु---
६" तदैक्षत बहु स्याम्" इति बहुभवनसङ्कल्परूपेक्षणान्वयात् , ५"सदेव सोम्य" इति कारणवाचिसच्छब्दविषयो नाचेतनं प्रधानम् अपि तु सावश्यसत्य सङ्कल्पत्वादियुक्तं परं ब्रह्मैवेति निश्चीयते । न चानुमानाकारमेतद्वाक्यम्। हेत्वनुपादानात् । अन्यज्ञानेनान्यज्ञानासम्भवपरिजिहीर्षया तु दृष्टान्तोपादानम्, न च मुख्येक्षणसम्भवे गौणपरिग्रहसम्भवः। तेजःप्रभृतिष्वपि न गौणमीक्षणम्, तेजआदिशब्दानां तेजःप्रभृतिशरीरकत्यान्तर्यामिणो वाचकत्वादिति परमेव ब्रह्म जगत्कारणवादिवेदान्तवेद्यम्---इति ॥
सूत्रार्थः-ईक्षतेः इति ईक्षतिधात्वर्थः ईक्षणम् । शब्दः प्रमाणं यस्य न भवति तत् अशब्दं परोक्तमानुमानिकं प्रधानम् । ५" सदेव सोम्येदम्" इति जगत्कारणतया प्रतिपादितान्वयिनः ईक्षणव्यापारान्नाचेतनमशब्दं तत्; अपि तु सर्वशं सत्यसङ्कल्पं ब्रह्मैव जगत्कारणमिति निश्चीयते-इति ॥५॥ १. छा.६.१ ३॥ २.जगत्कारण इत्येवारम्भः ४. छा. ६. १. ४॥ ५. छा. ६.२.१॥ कचिहश्यते ॥ ३. इत्येकविज्ञानेन, पा। ६.७. छा. १.२.३।। ८.साइल्पस्वयुक्तं. पण
For Private And Personal Use Only