________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
ईक्षत्यधिकरणम्
१६९
चक्षते । स्वं ह्यपीतो भवति " इति जीवस्य चेतनस्य सुषुप्तस्य सता संपन्नस्य स्वाप्ययवचनात् प्रधानादर्थान्तरभूतं सच्छब्दवाच्यमिति विज्ञायते । स्वमपीतो भवति - आत्मानमेव जीवोऽपीतो भवतीत्यर्थः । १ चिद्वस्तुशरीरकं तदात्मभूतं ब्रह्मैव जीवशब्देनाभिधीयत इति नामरूपव्याकरण २ श्रुत्युक्तम् । तजीवशब्दाभिधेयं परं ब्रह्मैव सुषुप्तिकालेऽपि प्रलयकाल इव नामरूपपरिष्वङ्गाभावात् केवलसच्छब्दाभिधेयमिति ३" सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति" इत्युच्यते । तथा समानप्रकरणे नामरूपपरिष्वङ्गाभावेन प्राशेनैव परिष्वङ्गात् ४" प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाधं किञ्चन वेद नान्तरम्" इत्युच्यते । आमोक्षाज्जीवस्य नामरूपपरिष्वङ्गादेव हि स्वव्यतिरिक्तविषयज्ञानोदयः । सुषुप्तिकाले हि नामरूपे विहाय सता सम्परिष्वक्तः पुनरपि जागरदशायां नामरूपे परिष्वज्य तत्तन्नामरूपो भवतीति श्रुत्यन्तरे स्पष्टमभिधीयते । यथा -- *५ " सुप्तः... स्वप्नं न कञ्चन पश्यति” ६" अथास्मिन्प्राण एवैकधा भवति एतस्माद्वा आत्मनः प्राणा यथायथं विप्रतिष्ठन्ते" तथा "त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा ... यद्यद्भवन्ति तथा भवन्ति" इति ॥ १० ॥
गतिसामान्यात् । १।१।११॥
सकलोपनिषद्गतिसामान्यादस्यामप्युपनिषदि न प्रधानं कारणमिति ज्ञायते । ८" आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत्, स ईक्षत लोका सृजा इति स इमाल्लोकानसृजत" ९" तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः” १०"स कारणं करणाधिपाधिपो नचास्य कश्चिज्जनिता न चाधिपः " इत्यादिसकलोपनिषत्सु सर्वेश्वर एव हि जगत्कारणमिति प्रतिपाद्यते ॥ ११ ॥
१. चिचिद्वस्तु पा
२. श्रुत्योक्तम्. पा
३. छा. ६ ८ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
श्रुतत्वाच्च । १ । १ । १२॥
श्रुतमेव स्यामुपनिषदि - ११" आत्मतः प्राणः... आत्मत आकाशः
४. बृ. ६.३.२१ ॥
*५. सुषुप्तः षा . ६.३.१९।।
22
६. कौषी. ४. १९॥
७. छा. ६. ९.३॥
८. ऐत १. १. १॥
९. तै. आनं. १॥ ११. छा. ७. २६. १॥
For Private And Personal Use Only
·
१०. वे. ६.९ ।।
""