________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८ वेदान्तसारे
[अ. १. प्राविशत् । तदनुप्रविश्य । सञ्च त्यच्चाभवत्। निरुक्तञ्चानिरुक्तश्च। निलयनश्चानिलयनश्च । विज्ञानश्चाविज्ञानश्च । सत्यश्चानृतश्च सत्यमभवत्" इति चेतनमचेतनश्च पृथक् निर्दिश्य तदुभयमनुप्रविश्य १सत्त्यच्छब्दवाच्योऽभवत्- इति हि समानप्रकरणे स्पष्टमभिहितम् ॥ ६॥
तन्निष्ठस्य मोक्षोपदेशात्।१।१॥७॥ इतपत्र प्रधानादर्थान्तरभूतं सच्छब्दाभिहितं जगत्कारणम् । सच्छब्दाभिहिततत्त्वनिष्ठस्य मोक्षोपदेशात् २"तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ संपत्स्ये" इति हि तनिष्ठस्य मोक्ष उपदिश्यते । प्रधानकारणवादिनामपि हि प्रधाननिष्ठस्य मोक्षो नाभिमतः ॥ ७॥
हेयत्वावचनाच्च।१।१८॥ यदि प्रधानमत्र विवक्षितम् तदा तस्य३हेयत्वात् अध्येयत्वमुच्येत। न तदुच्यते।मोक्षसाधनतया ४ध्येयत्वमेवात्रोच्यते;"तत्त्वमसि श्वेतकेतो" इत्यादिना॥ इतश्च न प्रधानम्
प्रतिज्ञाविरोधात्।१।१।९॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधात् । सच्छब्दवाच्यतत्त्वज्ञानेन तस्कार्यतया चेतनाचेतनसर्ववस्तुशानम्, ६"येनाश्रुतं श्रुतं भवति" इत्यादिना प्रतिज्ञातम् । तद्धि प्रधानकारणवादे विरुध्यते, चेतनस्य प्रधानकार्यत्वाभावात् । प्रधानादर्थान्तरभूतब्रह्मकारणवादे चिदचिवस्तुशरीरं ब्रह्मैव नामरूपविभागाविभागाभ्यां कार्य कारणञ्चेति ब्रह्मज्ञानेन कृत्स्नस्य शाततोपपद्यते ॥९॥ इतश्च न प्रधानम् --
स्वाप्ययात्।११।१०॥ ८"स्वप्नान्तं मे सोम्य विजानीहीति यत्रतत्पुरुषस्वपिति नाम सता सोम्य तदा सम्पन्नो भवति । स्वमपीतो भवति । तस्मादेनं स्वपितीत्या
१. तत्तदभवत् तत्तच्छब्दवाच्योऽभवत्. पा! ४. ध्येयत्वमेव ह्यत्रोच्यते. पा। २. छा. ६.१४-२॥
५. छा. ६-८-७॥ ६. छा. ६-१-३॥ ३. हेयत्वमध्येयत्वमुच्येत. पा।
७. भावाभावाभ्यां पा॥ ८. छा. ६-८-१॥
For Private And Personal Use Only