SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६६ शारीरकमीमांसाभाष्ये [अ. १. निता न चाधिप: "१" सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" २" अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा" ३" विश्वात्मानं परायणम्" ३" पति विश्वस्याऽत्मेश्वरम् " ३" यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयते ऽपिवा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः " ४" एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इत्यादीनि । तस्माज्जगत्कारणवादिवाक्यं न प्रधानादिप्रतिपादनयोग्यम् । अतस्सर्वज्ञस्सर्वशक्तिस्सर्वेश्वरेश्वरो निरस्त निखिल दोषगन्धोऽनवधिकातिशयासङ्ख्येयकल्याणगुणगणौघमहार्णवः पुरुषोत्तमो नारायण एवं निखिलजगदे - ककारणं जिज्ञास्यं ब्रह्मेति स्थितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir अत एव निर्विशेषचिन्मातब्रह्मवादोऽपि सूत्रकारण आभिश्श्रुतिभिः निरस्तो वेदितव्यः ; पारमार्थिकमुख्येक्षणादिगुणयोगि जिज्ञास्यं ब्रह्मेति स्थापनात् । निर्विशेषवादे हि साक्षित्वमप्यपारमार्थिकं वेदान्तवेद्यं ब्रह्म जिज्ञास्यतया प्रतिज्ञातम् । तच्च चेतनमिति ईक्षतेनशब्दम् - इत्यादिभिस्सूतैः प्रतिपाद्यते । चेतनत्वं नाम चैतन्यगुणयोगः । अत ईक्षणगुणविरहिणः प्रधानतुल्यत्वमेव । किंच - निर्विशेषप्रकाशमात्रब्रह्मवादे तस्य प्रकाशत्वमपि दुरुपपादम् । प्रकाशो हि नाम स्वस्य परस्य च व्यवहारयोग्यतामापादयन्वस्तुविशेषः । निर्विशेषस्य वस्तुनस्तदुभयरूपत्वाभावात् घटादिवदचित्त्वमेव । तदुभयरूपत्वाभावेऽपि तत्क्षमत्वमस्तीति चेत् तन्न, तत्क्षमत्वं हि तत्सामर्थ्यमेव । सामर्थ्यगुणयोगे हि निर्विशेषवादः परित्यक्तस्स्यात् । अथ श्रुतिप्रामाण्यादयमेको विशेषोऽभ्युपगम्यत इति चेत् हन्त तर्हि तत एव सर्वज्ञता, सर्वशक्तित्वं, सर्वेश्वरेश्वरत्वं, सर्वकल्याणगुणाकरत्वं, सकलहेयप्रत्यनीकतेत्यादयस्सर्वेऽ १. तै- आरण्य ब्रह्ममेध - पुरुषसू - ३.१२.१३॥ २. तै- आरण्य - चित्ति - ३. प्रश्न- ११. अनु- २१.५ ॥ ३. तै- ना - ११. अनु॥ ४. सुबा. खं-७॥ ५. वादीनि वाक्यानि न प्रधानप्रतिपादनयोग्यानि पा ६. समस्त, पा।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy