________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
ईक्षत्यधिकरणम्, स इमाल्लोकानसृजत" "स ईक्षाश्चके...स प्राणमसृजत" इत्यादिषु। ननु च कार्यानुगुणेनैव कारणेन भवितव्यम्।सत्यम् सर्वकार्यानुगुण एव सर्वज्ञस्सर्वशक्तिस्सत्यसङ्कल्पः पुरुषोत्तमस्सूक्ष्मचिदचिद्वस्तुशरीरकः। यथाऽऽह
२"पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया च"३"यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः" "यस्याव्यक्तं शरीरं...यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् .. एष सर्वभूतान्तरात्मा"इतितदेतत्-.५"न विलक्षणत्वात्" इत्यादिषु प्रतिपादयिष्यते। अत्र सृष्टिवाक्यानि न प्रधानप्रतिपादनयोग्यानीत्युच्यते । वस्तुविरोधस्तु तत्रैव परिहरिष्यते । यत्तूक्तंप्रतिज्ञादृष्टान्तयोगादनुमानरूपमेवेदं वाक्यम्-इति,तदसत् : हेत्वनुपादानात् । ६"येनाश्रुतं श्रुतम्" इत्येकविज्ञानेन सर्वविज्ञाने प्रतिपिपादयिषिते सर्वात्मना तदसम्भवं मन्वानस्य तत्सम्भवमानप्रदर्शनाय हि दृष्टान्तोपादानम् । ईक्षत्यादिश्रवणादेव ह्यनुमानगन्धाभावोऽवगतः ॥५॥
अथ स्यात् -न चेतनगतं मुख्यमीक्षणमिहोच्यते, अपि तु प्रधानगतं गौणमीक्षणम्, "तत्तेज ऐक्षत - ता आप ऐक्षन्त"इति गौणेक्षणसाहचर्यात् । भवति चाचेतनेष्वपि चेतनधर्मोपचारः। यथा- 'दृष्टिप्रतीक्षा
शालय'८"वर्षेण बीजं प्रतिसञ्जहर्ष"इति। अतो गौणमीक्षणमितीमामाशङ्कामनुभाष्य परिहरति
गौणश्चेन्नात्मशब्दात् । १।१॥६॥
यदुक्तं - गौणेक्षणसाहचर्यात् सतोऽपीक्षणव्यपदेशस्सर्गनियतपूर्वावस्थाभिप्रायो गौणः-इति। तन्न ९“ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा" इति सच्छब्दप्रतिपादितस्य आत्मशब्देन व्यपदेशात् । एतदुक्तं १. प्रश्न-६. प्रश्न-३,४॥ २. श्वे-६. अ-८॥ ६. छां-६. प्र-१. ख-३॥ ३. मु-१. मु-१. ख-९॥
७. छां-६. प्र-२. ख-३, ४॥ ४. सु-७. ख. तुरीयातीतावधूतोप. च. १॥ ८. रामायणे. सुन्दर. २९-सर्ग. ६-श्लो।। ५. शारी-२. अ-१. पा-४. स॥ ! ९. छां-६. प्र.८. ख-७॥
21
For Private And Personal Use Only