SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६२ शारीरकमीमांसाभाष्ये [अ. १. भवति - १" ऐतदात्म्यमिदं सर्वम् । स आत्मा" इति चेतनाचेतनप्रपञ्चोदेशेन सत आत्मत्वोपदेशोऽयं नाचेतने प्रधाने सङ्गच्छते इति । अतस्तेजोsवन्नानामपि परमात्मैवात्मेति तेजःप्रभृतयोऽपि शब्दाः परमात्मन एव वाचकाः । तथाहि - २" हन्ताहमिमास्तिस्रो देवता अनेन जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " इति परमात्मानुप्रवेशादेव तेज:प्रभृतीनां वस्तुत्वं तत्तन्नामभाक्त्वश्चेति ३" तत्तेज ऐक्षत"*"ता आप ऐक्षन्त" इत्यपि मुख्य एवेक्षणव्यपदेशः । अतस्साहचर्यादपि " तदैक्षत " tara ४ गौणत्वाशङ्का दूरोत्सारितेति सूत्राभिप्रायः ॥ ६ ॥ इतश्च न प्रधानं सच्छन्दप्रतिपाद्यम्तन्निष्ठस्य मोक्षोपदेशात् ॥ १ ॥१॥७ ॥ इतश्च न प्रधानम् --- मुमुक्षोरश्वेतकेतोः *“ तत्त्वमसि " इति सदात्मकत्वानुसन्धानमुपदिश्य, तन्निष्ठस्य तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये” इति शरीरपातमात्रान्तरायो ब्रह्मसम्पत्तिलक्षणो मोक्ष इत्युपदिशति । यदि च प्रधानमचेतनं कारणमुपदिश्येत तदा तदात्मकत्वानुसन्धानस्य मोक्षसाधनत्वोपदेशो नोपपद्यते । ६ “यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति”इति तन्निष्ठस्याचेतनसम्पत्तिरेव स्यात् । नच मातापितृसहस्रेभ्योऽपि वत्सलतरं शास्त्रमेवंविधतापत्रयाभिहतिहेतुभूतामचित्सम्पत्तिमुपदिशति । प्रधानकारणवादिनोऽपि हि प्रधाननिष्ठस्य मोक्षं नाभ्युपगच्छन्ति ॥ ७ ॥ Acharya Shri Kailassagarsuri Gyanmandir १. छां - ६. प्र-८. ख. ७॥ २. छां - ६. प्र ३ ख २ ॥ ३. छां - ६ प्र. २- ख - ३.४ ॥ ४. गौणत्वादिशङ्का. पा॥ हेयत्वावचनाच्च। १।१८॥ ५. छां - ६. प्र. १४ - ख. २॥ ६. छां - ३. प्र. १४. ख - १॥ ७. वत्सलतरं हि शास्त्रं पा For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy