________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
शारीरकमीमांसाभाष्ये
[अ. १. यम् । तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत"इत्यादि । तत्र सन्देहः -किं सच्छब्दवाच्यं जगत्कारणं परोक्तमानुमानिकं प्रधानम् ? , उतोक्तलक्षणं ब्रह्म-इति ॥
किं प्राप्तम् ? प्रधानमिति । कुतः ? *"सदेव सोम्येदमग्र आसीदेकमेव" इतीदंशब्दवाच्यस्य चेतनभोग्यभूतस्य सत्त्वरजस्तमोमयस्य वियदादिनानारूपविकारावस्थस्य वस्तुनः कारणावस्थां वदति । कारणभूतद्रव्यस्यावस्थान्तरापत्तिरेव हि कार्यता । अतो यद्दव्यं यत्स्वभावं च कार्यावस्थम् ; तत्स्वभावं तदेव द्रव्यं कारणावस्थम् । सत्त्वादिमयं च कार्यमिति गुणसाम्यावस्थं प्रधानमेव हि कारणम् । तदेवोपसंहृतसकलविशेष सन्मात्रमिति *"स देव सोम्येदमग्र आसीदेकमेवाद्वितीयम्" इत्यभिधीयते । तत एव च कार्यकारणयोरनन्यत्वम् । तथा सत्येवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तिः।अन्यथार "यथा सोम्यैकेन मृत्पिण्डेन" इत्यादि मृत्पिण्डतत्कार्यदृष्टान्तदान्तिकयो(रूप्यं चेति जगत्कारणवादिवाक्येन महर्षिणा कपिलेनोक्तं प्रधानमेव प्रतिपाद्यते । प्रतिज्ञादृष्टान्तरूपेणानुमानवेषमेव चेदं वाक्यमिति सच्छब्दवाच्यमानुमानिकमेव
इत्येवं प्राप्तेऽभिधीयते ईक्षते शब्दम् इति । यस्मिन् शब्द एव प्रमाणं न भवति, तदशब्दम् आनुमानिकं प्रधानमित्यर्थः। न तज्जगत्कारणवादिवाक्यप्रतिपाद्यम्। कुतः? ईक्षतेः-सच्छब्दवाच्यसम्बन्धिव्यापारविशेषाभिधायिन ईक्षतेर्धातोश्श्रवणात् ।३"तदैवत बहु स्यां प्रजायेय"इति ईक्षणक्रियायोगश्चाचेतने प्रधाने न सम्भवति । अत ईदृशेक्षणक्षमश्चेतन विशेषस्सर्वज्ञस्सर्वशक्तिः पुरुषोत्तमस्सच्छब्दाभिधेयः। तथा च सर्वेष्वेव सृष्टिप्रकरणेष्वीक्षापूर्विकैव सृष्टिःप्रतीयते--४“स ईक्षत लोकान्नु सृजा इति १. तत्र सन्दियते. पा.
३. छा-६. प्र.२. ख-३. २. छा-६. प्र-१. ख-४.
४. ऐ-१. ख-१,२.
For Private And Personal Use Only