________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
ईक्षत्यधिकरणम्
१५९
बह्मणश्शास्त्रप्रमाणकत्वं सम्भवति, नेति विचार्यते । न सम्भवतीति पूर्वः पक्षः कुतः प्रवृत्तिनिवृत्त्यन्वयविरहिणो ब्रह्मणः स्वरूपेणापुरुषार्थत्वात् पुरुषार्थावबोधकत्वेन च शास्त्रस्य प्रामाण्यान्मोक्षसाधनब्रह्मध्यानविधिपरत्वेऽसत्यपि ब्रह्मणि तयानविधानसम्भवात् न ब्रह्मसद्भावे तात्पर्यमिति ब्रह्मणश्शास्त्रप्रमाणकत्वं न सम्भवति इति । राद्धान्तस्तु - अतिशयितगुणपितृपुत्रादिजीवनज्ञानवत् अनवधिकातिशयानन्दस्वरूपब्रह्मज्ञानस्य निरतिशयपुरुषार्थत्वातस्य शास्त्रप्रमाणकत्वं सम्भवति, "आनन्दो ब्रह्म" "यदेष आकाश आनन्दो न स्यात्" "यतो वाचो निर्वतन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वानें " इत्यादिभिरनवधिकातिशयानन्दस्वरूपं ब्रह्मेति हि प्रतिपाद्यते। अतो ब्रह्म स्वेन परेण वाप्यनुभूयमानं निरतिशयानन्दस्वरूपमेवेति तत्प्रतिपादन परस्यैव साक्षात्पुरुषार्थान्वयः । प्रवृत्तिनिवृत्तिपरस्य तु तत्साध्यफलसम्बन्धात्पुरुषार्थान्वयः - इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रार्थः - तुशब्दः प्रसक्ताशङ्कानिवृत्त्यर्थः । तत् पूर्वसूत्रोदितं ब्रह्मणश्शास्त्रयोनित्वं सिद्ध्यति । समन्वयात् – सम्यक् पुरुषार्थतयाऽन्वयः समन्वयः । वेदितुर्निरतिशयानन्दस्वरूपत्वेन परमपुरुषार्थरूपे परे १ ब्रह्मणि वेदकतया शास्त्रस्यान्वयाद्ब्रह्मणश्शास्त्रप्रमाणकत्वं सिद्ध्यत्येव - इति ॥
इति वेदान्तदीपे समन्वयाधिकरणम् || ४ ||
( शारीरकमीमांसाभाष्ये ईक्षत्यधिकरणम् ॥ ५ ॥
१. ब्रह्मण्यावेदकशास्त्रान्वयात्. पा.
२. तै- भृगु, १ - अनु. १.
ईक्षतेर्नाशब्दम् । १ । १ । ५ ॥
२" यतो वा इमानि " इत्यादिजगत्कारणवादिवाक्यप्रतिपाद्यं सर्वज्ञं सर्वशक्ति समस्त प्रत्यनीककल्याणगुणैकतानं ब्रह्म जिज्ञास्यमित्यु - क्तम् । इदानीं जगत्कारणवादिवाक्यानामानुमानिकप्रधानादिप्रतिपादनानर्हतोच्यते-- ईक्षतेनशब्दम् इत्यादिना ||
इदमान्नायते छान्दोग्ये ३ “सदेव सोम्येदमग्र आसीदेकमेवाद्विती
३. छा- ६. प्र-२. ख- १.
For Private And Personal Use Only