________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५८
वेदान्तदीपे
दयो निवर्तेरन् । औपनिषदेष्वपि वाक्येषु ब्रह्मास्तित्वतात्पर्याभावनिश्चये ब्रह्मज्ञाने सत्यपि पुरुषार्थपर्यवसानं न स्यात् । अतः १ यतो वा इमानि भूतानि जायन्ते " इत्यादिवाक्यं निखिलजगदेककारणं निरस्तनिखिलदोषगन्धं सार्वइयसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणाकरमनवाधिकातिशयानन्दं ब्रह्मास्तीति बोधयतीति सिद्धम् ॥ ४ ॥
इति श्रीशारीरकमीमांसाभाष्ये समन्वयाधिकरणम् ॥ ४ ॥
~ ( वेदान्तसारे समन्वयाधिकरणम् || ४ || )
तत्तु समन्वयात् । १।१।४॥
२ पुरुषार्थतयाऽन्वयः समन्वयः शास्त्राख्यप्रमाणस्य पुरुषार्थपर्यवसायित्वेऽपि ब्रह्म स्वस्य परस्यश्चानुभवितुः अविशेषेण स्वरूपेण गुणैः विभूत्या च अनुभूयमानम् अनवधिकातिशयानन्दरूपमिति पुरुषार्थत्वेनाभिधेयतयाऽन्वयात्, ब्रह्मणश्शास्त्रप्रमाणकत्वमुपपन्नतरमिति निरवद्यं निखिलजगदेककारणं ब्रह्म - दान्ताः प्रतिपादयन्तीत्युक्तम् । तस्यैकस्यैकदैव कृत्स्नजगन्निमित्तत्वं तस्यैवोपादानतया जगदात्मकत्वञ्च नानुमानादिगम्यमिति शास्त्रक प्रमाणकत्वात् तस्य चानवाधिकातिशयानन्दरूपतया परमपुरुषार्थत्वाद्वेदान्ताः प्रतिपादयन्त्येवेति स्थिरीकृतम् । अतः परं पादशेषेण जगत्कारणतया प्रधानपुरुषप्रतिपादनानर्हतया सर्वशं सत्यसङ्कल्पं निरस्ताविद्यादिसमस्तदोषगन्धम् अपरिमितोदारगुणसागरं ब्रह्मैव वेदान्ताः प्रतिपादयन्तीत्युच्यते ॥ ४ ॥
"
इति वेदान्तसारे समन्वयाधिकरणम् ॥ ४ ॥
( वेदान्तदीपे समन्वयाधिकरणम् || ४ || )
तत्तु समन्वयात् । १ । १ । ४ ॥
[अ. १.
१. तै- भृगु. १ - अनु. १·
२. पुरुषार्थतया सम्यगन्वयः समन्वय: पा. अनवधिकातिशयानन्द. प्रा.
For Private And Personal Use Only
३. वानुभवितुः स्वरूपेण गुणैः विभूत्या वा