________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] समन्वयाधिकरणम्.
१५७ पुनपुंसकभेदभिन्नानां क्षेत्रज्ञानां व्यवस्थितधारकपोषकभोग्यविशेषाणां मुक्तानां स्वस्य चाविशेषणानुभवसम्भवे स्वरूपगुणविभवचेष्टितैरनवधिकातिशयानन्दजननं परं ब्रह्मास्तीति बोधयदेव वाक्यं प्रयोजनपर्यवसायि । प्रवृत्तिनिवृत्तिनिष्ठं तु यावत्पुरुषार्थान्वयबोधं न प्रयोजनपर्यवसायि । एवंभूतं परं ब्रह्म कथं प्राप्यत इत्यपेक्षायां १"ब्रह्मविदाप्नोति परम्" २“आत्मानमेव लोकमुपासीत" इति वेदनादिशब्दरुपासनं ब्रह्मप्राप्त्युपायतया विधीयते । यथास्ववेश्मनि 'निधिरस्ति' इति वाक्येन निधिसद्भावं ज्ञात्वा तृप्तस्सन् पश्चात्तदुपादाने च प्रयतते। यथाच कश्चि द्राजकुमारो वालक्रीडासक्तो नरेन्द्रभवनानिष्क्रान्तो मार्गाद्भष्टो नष्ट इति राज्ञा विज्ञातस्स्वयं चाज्ञातपितृकः केनचिद्विजवर्येण वर्धितोऽधिगतवेदशास्त्रषोडशवर्षस्सर्वकल्याणगुणाकरस्तिष्ठन् 'पिता ते सर्वलोकाधिपतिः गाम्भीर्यौदार्यवात्सल्यसौशील्यशौर्यवीर्यपराक्रमादिगुणसम्पन्नस्त्वामेव नटं पुत्रं दिक्षुः पुरवरे तिष्ठति' इति केनचिदभियुक्ततमेन प्रयुक्तं वाक्यं शृणोति चेत् तदानीमेव 'अहं तावत् जीवतः पुत्रः, मत्पिता च सर्वसम्पत्समृद्धः' इति निरतिशयहर्षसमन्वितो भवति । राजा च स्वपुत्रं जीवन्तमरोगमतिमनोहरदर्शनं विदितसकलवेद्यं श्रुत्वाऽवाप्तसमस्त पुरुषार्थों भवति । पश्चात्तदुपादाने च प्रयतते । पश्चात्तावुभौ सङ्गच्छेते च-इति।।
यत्पुनःपरिनिष्पन्नवस्तुगोचरस्य वाक्यस्य तज्ज्ञानमात्रेणापि पुरुषार्थपर्यवसानात् बालातुराग्रुपच्छन्दनवाक्यवन्नार्थसद्भावे प्रामाण्यम् ...इति । तदसत्अर्थसद्भावाभावे निश्चिते ज्ञातोऽप्यर्थः पुरुषार्थाय न भवति। बालातुरादीनामप्यर्थसद्भावभ्रान्त्या हर्षाद्युत्पत्तिः।तेषामेव तस्मिनेव ज्ञाने विद्यमाने यद्यर्थाभावनिश्चयो जायेत; ततस्तदानीमेव हर्षा१. तै-आनं-१. अनु.
__४. पुरुषार्थो भवति. पश्चात्तावुभौ संगच्छेते २. बृ-३. अ-४. ब्रा-१५. ३. तव वेश्मनि.
। ५. बालादीनामर्थ...हर्षायुपपतिः. पा.
च पा,
For Private And Personal Use Only