SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ शारीरकमीमांसाभाष्ये [भ. १. तन्त्राण्येव एकवाक्यत्वे ध्यानविधिपरत्वेन ब्रह्मस्वरूपे तात्पर्य न सम्भवति। भिन्नवाक्यत्वे प्रवृत्तिनिवृत्तिप्रयोजनविरहादनवबोधकत्वमेव। न च वाच्यम्-ध्यानं नाम स्मृतिसन्ततिरूपम् । तच्च स्मर्तव्यैकनिरूपणीयमिति ध्यानविधेस्स्मतव्यविशेषाकाङ्क्षायाम् १" इदं सर्वं यदयमात्मा" २"ब्रह्म सर्वानुभूः" ३ "सत्यं ज्ञानमनन्तं ब्रह्म" इत्यादीनि स्वरूपतद्विशेषादीनि समर्पयन्ति । तेनैकवाक्यतामापन्नान्यर्थसद्भावे प्रमाणम् इति ध्यानविधेस्स्मर्तव्यविशेषापेक्षत्वेऽपि ४"*नाम ब्रह्म" इत्यादिदृष्टिविधिवदसत्येनाप्यर्थविशेषेण ध्याननिर्वृत्त्युपपत्तेः ध्येयसत्यत्वानपेक्षणात्। अतो वेदान्तवाक्यानां प्रवृत्तिनिवृत्तिप्रयोजनविधुरत्वाद्ध्यानविधिशेषत्वेऽपि ध्येयविशेषस्वरूपसमर्पणमानपर्यवसानात् , स्वातन्त्र्येऽपि बालातुरायुपच्छन्दनवाक्यवत् ज्ञानमात्रेणैव पुरुषार्थपर्यन्ततासिद्धेश्च परिनिष्पन्नवस्तुसत्यतागोचरत्वाभावात् ब्रह्मणश्शास्त्रप्रमाणकत्वं न सम्भवतीति प्राप्तम् ॥ ___---( सिद्धान्तः )... __ तत्र प्रतिपद्यते-तत्तु समन्वयात्-इति।समन्वयः-सम्यगन्वयः पुरुषार्थतयाऽन्वय इत्यर्थः। परमपुरुषार्थभूतस्यानवधिकातिशयानन्दस्वरूपस्य ब्रह्मणोऽभिधेयतयाऽन्वयात् । तत् शास्त्रप्रमाणकत्वं सिध्यत्येवेत्यर्थः । निरस्तनिखिलदोषनिरतिशयानन्दस्वरूपतया परमप्राप्यं ब्रह्म बोधयन्वेदान्तवाक्यगणः प्रवृत्तिनिवृत्तिपरताविरहान्न प्रयोजनपर्यवसायीति ब्रुवाणो राजकुलवासिनः पुरुषस्य कौलेयककुलाननुप्रवेशेन प्रयोजनशून्यता ब्रूते । एतदुक्तं भवति—अनादिकर्मरूपाविद्यावेष्टनतिरोहितपरावरतत्त्वयाथात्म्यवस्वरूपावबोधानां देवासुरगन्धर्वसिद्धविद्याधरकिन्नरकिम्पुरुष यक्षराक्षसपिशाचमनुजपशुशकुनिसरीसृपक्षगुल्मलतादूर्वादीनां स्त्री १. बृ-४. अ-४, ब्रा-६. २. बृ-४. ४. छां-७.प्र-१.ख-५. * मनो ब्रह्म.पा. अ-५. ब्रा-१९. ३. ते.आनं-१ अनु. | छा. ७ प्र. ३. ख. २. ५. यक्षरक्षःपि. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy