________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
समन्वयाधिकरणम् स्वाभाविकः । भेदस्तु जीवानां परस्मात् ब्रह्मणः, परस्परं च बुद्धीन्द्रियदेहोपाधिकृतः । यद्यपि ब्रह्म निरवयवं सर्वगतं च ; तथाऽप्याकाश इव घटादिना बुद्ध्याापाधिना ब्रह्मण्यपि भेदस्संभवत्येव । न च भिन्ने ब्रह्मणि बुद्ध्याधुपाधिसंयोगः, बुद्ध्याापाधिसंयोगाद्ब्रह्मणि भेद इतीतरेतराश्रयत्वम् : उपाधेस्तत्संयोगस्य च कर्मकृतत्वात् , तत्प्रवाहस्य चानादित्वात् । एतदुक्तं भवति–पूर्वकर्मसंवद्धाज्जीवात् स्वसंबद्ध एवोपाधिरुत्पद्यते, तद्युक्तात्कर्म। एवं बीजाङ्करन्यायेन कर्मोपाधिसंबन्धस्यानादित्वान दोषः-इति।अतो जीवानां परस्परं ब्रह्मणा चाभेद एव स्वाभाविकः। भेदस्त्वौपाधिकः। उपाधीनां पुनः परस्परं ब्रह्मणा चाभेदवत् भेदोऽपि स्वाभाविकः, उपाधीनामुपाध्यन्तराभावात् , तदभ्युपगमेऽनवस्थानाच । अतो जीवकर्मानुरूपं ब्रह्मणो भिन्नाभिन्नस्वभावा एवोपाधयउत्पद्यन्ते इति ॥ ___अत्रोच्यते-अद्वितीयसच्चिदानन्दब्रह्मध्यानविषयविधिपरं वेदान्तवाक्यजातमिति वेदान्तवाक्यैरभेदः प्रतीयते । भेदावलम्बिभिः कर्मशास्त्रैः प्रत्यक्षादिभिश्च भेदः प्रतीयते । भेदाभेदयोः परस्परविरोधात अनाद्यविद्यामूलतयाऽपि भेदप्रतीत्युपपत्तेरभेद एव परमार्थ इत्युक्तम् । तत्र यदुक्तं-भेदाभेदयोरुभयोरपि प्रतीतिसिद्धत्वान्न विरोधः इति।तदयुक्तम् , कस्माञ्चित्कस्यचिद्विलक्षणत्वं हि तस्मात्तस्य भेदः। तद्विपरीतत्वं चाभेदः। तयोस्तथाभावातथाभावरूपयोरेकन सम्भवमनुन्मत्तः को ब्रवीति? । कारणात्मना जात्यात्मना चाभेदः, कार्यात्मना व्यक्त्यात्मना च भेदः-इत्याकारभेदादविरोध इति चेत्-न विकल्पासहत्वात्। आकारभेदादविरोधं वदतः किमेकस्मिन्नाकारे भेदः, आकारान्तरे चाभेद:इत्यभिप्रायः?; उताकारद्वययोगिवस्तुगतावुभावपीति? पूर्वस्मिन् कल्पेव्यक्तिगतो भेदः,जातिगतश्चाभेद इति नैकस्य द्वयात्मकता। जातिय॑क्ति
१. गमे चानवस्थानात् पा॥
20
For Private And Personal Use Only