________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. तन्मूला जन्ममरणा पा.
२. मुण्ड- १. मु-१. ख ९.
१५४
शारीरकमीमांसाभाष्ये
[अ. १.
रिति चैकमेव वस्त्विति चेत्तर्ह्यकारभेदादविरोधः परित्यक्तस्स्यात् । एकस्मिंश्च विलक्षणत्वतद्विपर्ययौ विरुद्धावित्युक्तम् । द्वितीये तु कल्पे अन्योन्यविलक्षणमाकारद्वयमप्रतिपन्नं च तदाश्रयभूतं वस्त्विति । तृतीयाभ्युपगमेऽपि त्रयाणामन्योन्यवैलक्षण्यमेवोपपादितं स्यात् ; न पुनरभेदः । आकारद्वयनिरुह्यमाणाविरोधं तदाश्रयभूते वस्तुनि भिन्नाभिन्नत्वमिति चेत् — स्वस्माद्विलक्षणं स्वाश्रयमाकारद्वयं स्वस्मिन्विरुद्धधर्मद्वयसमावेशनिर्वाहकं कथं भवेत् || अविलक्षणं तु कथंतराम् । आकारद्वयतद्व१ तोच व्यात्मकत्वाभ्युपगमे निर्वाहकान्तरापेक्षयाऽनवस्था स्यात् । न च सम्प्रतिपन्नैक्यव्यक्तिप्रतीतिवत् ससामान्येऽपि वस्तुन्येकरूपा प्रतीतिरुपजायते । यतः 'इदमित्थम्' इति सर्वत्र प्रकार प्रकारितयैव सर्वा प्रतीतिः । तत्र प्रकारांशी जातिः, प्रकार्यशो व्यक्तिरिति नैकाकारा प्रतीतिः । अत एव जीवस्यापि ब्रह्मणो भिन्नाभिन्नत्वं न सम्भवति । तस्मादभेदस्यानन्यथासिद्धशास्त्रमूलत्वादनाद्यविद्यामूल एव भेदप्रत्ययः । नन्वेवं ब्रह्मण एवाज्ञत्वं, तन्मूलाश्च जन्मजरामरणादयो दोषाः प्रादुःष्युः ततश्च २" यस्सर्वज्ञस्सर्ववित्" ३" एष आत्माऽपहतपाप्मा" इत्यादीनि शास्त्राणि बाध्येरन् । नैवम् - अज्ञानादिदोषाणामपरमार्थत्वात् । भवतस्तूपाधिब्रह्मव्यतिरिक्तं वस्त्वन्तरमनभ्युपगच्छतो ब्रह्मण्येवोपाधिसंसर्गस्तत्कृताव जीवत्वात्वादयो दोषाः परमार्थत एव भवेयुः। न हि ब्रह्मणि निtara अच्छे सम्बद्ध्यमाना उपाधयस्तच्छित्वा भित्वा वा सम्बद्ध्यन्ते । अपि तु ब्रह्मखरूपे संयुज्य तस्मिन्नेव स्वकार्याणि कुर्वन्ति । यदि ५ मन्वीत उपाध्युपहितं ब्रह्म जीवः । स चाणुपरिमाणः । अणुत्वं चावच्छेदकस्य मनसोऽणुत्वात् । स चावच्छेदोऽनादिः । एवमुपाध्युपहितेंशे संवच्यमाना दोषाः अनुपहिते परे ब्रह्मणि न संबद्ध्यन्ते इति । अयं प्रष्ट
Acharya Shri Kailassagarsuri Gyanmandir
३. छा-८. प्र - १. ख-५. ४. जीवत्वादयो.पा.
For Private And Personal Use Only
५. मन्वीथा. पा.