SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५२ शारीरकमीमांसाभाष्ये (अ. १. कामान् ” १" ज्ञाज्ञौ द्वावजावीशनीशौ ” २" क्रियागुणैरात्मगुणैश्च तेषां संयोग हेतुरपरोऽपि दृष्टः " ३" प्रधानक्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः " ४" स कारणं करणाधिपाधिपः " ५" तयोरन्य: पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचातशीति " ६" य आत्मनि तिष्ठन् " " प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद "..." प्राज्ञेनाऽत्मनाऽन्वारूढः उत्सर्जन्याति " ८" तमेव विदित्वाऽतिमृत्युमेति" इत्यादिभिर्भेदश्रवणाच्च, जीवपरयोर्भेदाभेदाववश्याश्रयणीयौ, तत्र १ " ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिर्मोक्षदशायां जीवस्य ब्रह्मस्वरूपापतिव्यपदेशात् । १०" यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् " इति तदानीं भेदेनेश्वरदर्शननिषेधाच्चाभेदस्स्वाभाविक इत्यवगम्यते । ननु च ११" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता " इति सहश्रुत्या तदानीमपि भेद: १२ प्रतीयते । वक्ष्यति च १३ " जगद्व्यापारवर्ज प्रकरणादसन्निहितत्वाच्च ” *“ भोगमात्रसाम्यलिङ्गाच्च " इति । नैतदेवम् १४" नान्योऽतोऽस्ति द्रष्टा " इत्यादिश्रुतिशतैरात्मभेदप्रतिषेधात् । *" सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता" इति सर्वैः कामैस्सह ब्रह्माश्नुते - सर्वगुणान्वितं ब्रह्माश्नुत इत्युक्तं भवति । अन्यथा ब्रह्मणा सहेत्यप्राधान्यं ब्रह्मणः प्रसज्येत। " जगद्व्यापारवर्जम्" इत्यत्र मुक्तस्य भेदेनावस्थाने सत्यैश्वर्यस्य न्यूनताप्रसङ्गो वक्ष्यते, अन्यथा " संपद्याविर्भावस्स्वेनशब्दात् " इत्यादिभिर्विरोधात् । तस्मादभेद एव * १. श्वे. १ - अ, ९ ॥ २. वे. ५-अ १२॥ ३. श्वे, ६-१६॥ ४. वे. ६-अ. ९॥ ५ वे. ४- अ. ६ ॥ ६. बृ. ५- अ. ७-ब्रा, २२. माध्यन्दिनपाठः ॥ ७. ब्रु. ६-अ. ३ - बा. २१, ३५॥ Acharya Shri Kailassagarsuri Gyanmandir ८, वे. ३. अ. ८॥ ११. तै- आ ९. मुण्ड. ३. भु. २ ख ९॥ १०. बृ-४. अ-४. ब्रा - १४॥ १. अनु ॥ १२. प्रतीयते इति पा * १३. शारी- ४. अ-४. पा-१७. २१.१ ॥ १४. बु- ५. अ-७ वा २३ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy