________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
समन्वयाधिकरणम्.
१५१
१
1
माकृतिश्व, व्यावृत्तिबुद्धिबोध्यं कार्य व्यक्तिचेति विविनतीति चेत्-नैवम्, विविक्ताकारानुपलब्धेः । न हि सुसूक्ष्ममपि निरीक्षमाणै: 'इदमनुवर्तमानम्, इदं च व्यावर्तमानम्' इति पुरोऽवस्थिते वस्तुन्याकारभेद उपलभ्यते । यथा संप्रतिपन्नैक्ये कार्ये विशेषे चैकत्वबुद्धिरुपजायते ; तथैव सकारणे सामान्ये चैकत्वबुद्धिरविशिष्टोपजायते । एवमेव देशतः कालतश्चाकारतश्चात्यान्तविलक्षणेष्वपि वस्तुषु तदेवेदमिति प्रत्यभिज्ञा जायते । अतो व्यात्मकमेव वस्तु प्रतीयते इति कार्यकारणयोर्जातिव्यक्त्योश्चात्यन्तभेदोपपादनं प्रतीतिपराहतम् । अथोच्येत - ' मृदयं घटः खण्डो गौः' इतिवत् 'देवोऽहं मनुष्योऽहम्' इति सामानाधिकरण्येनैक्यप्रतीतेरात्मशरीरयोरपि भिन्नाभिन्नत्वं स्यात् ; अथ इदं भेदाभेदोपपादनं निजसदननिहितहुतवहज्वालायत इति, तदिदमनाकलितभेदाभेदसाधन समानाधिकरण्यतदर्थयाथात्म्यावबोधविलसितम् । तथा हिअबाधित एव प्रत्ययः सर्वत्रार्थ व्यवस्थापयति । देवाद्यात्माभिमानस्तु आत्मयाथात्म्यगोचरैस्सर्वैः प्रमाणैर्बाध्यमानो रज्जुसर्पादिबुद्धिवन्नात्मशरीरयोरभेदं साधयति । ' खण्डो गौः, मुण्डो गौ: ' इति सामानाधिकरयस्य न केनचित्कचिद्वाधो दृश्यते । तस्मान्नातिप्रसङ्गः । अत एव जी - वोsपि ब्रह्मणो नात्यन्तभिन्नः । अपि तु ब्रह्मांशत्वेन भिन्नाभिन्नः । darभेद एव स्वाभाविकः, भेदस्त्वोपाधिकः कथमवगम्यत इति चेत् :२" तत्त्वमसि " ३" नान्योऽतोऽस्ति द्रष्टा " ४" अयमात्मा ब्रह्म" इत्यादिभिःश्रुतिभिः ५" ब्रह्मेमे द्यावापृथिवी " इति प्रकृत्य " ब्रह्म दाशा ब्रह्म दासा ब्रह्मे कितवा उत । स्त्रीपुंसौ ब्रह्मणो जातौ स्त्रियो ब्रह्मोत वा पुमान्" इत्याथर्वणिकानां संहितोपनिषदि ब्रह्मसूते अभेदश्रवणाच्च । ६" नित्यो नित्यानां चेतनचेतनानामेको बहूनां यो विदधाति
—
१. सूक्ष्म. पा २. छा- ६. प्र. ८. स-७॥ ३. बृ ५. अ-७. या २३॥
Acharya Shri Kailassagarsuri Gyanmandir
४. बृ- ६. अ-४, बा-५॥ ६. श्वे. ६. अ- १३॥
For Private And Personal Use Only
५॥