________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५० शारीरकमीमांसाभाष्ये
[अ.१. १" नेदं यदिदमुपासते"इत्युपास्यत्वं प्रतिषिद्धमिति चेत् नैवम्, नात्र ब्रह्मण उपास्यत्वं प्रतिषिध्यते ; अपि तु ब्रह्मणो जगद्वैरूप्यं प्रतिपायते । यदिदं जगदुपासते पाणिनः, नेदं ब्रह्म तदेव ब्रह्म त्वं विद्धि, यद्वाचाऽनभ्युदितं येन वागभ्युद्यते इति वाक्यार्थः । अन्यथा 'तदेव ब्रह्म त्वं विद्धि' इति विरुध्यते । ध्यानविधियर्थं च स्यात् । अतो ब्रह्मसाक्षात्कारफलेन ध्याननियोगेनैवापरमार्थभूतस्य कृत्स्नस्य द्रष्टटश्यादिप्रपञ्चरूपबन्धस्य निवृत्तिः ॥ ___ यदपि कैश्चिदुक्तम्-भेदाभेदयोर्विरोधो न विद्यते इति तदयुक्तम् , न हि शीतोष्णतम प्रकाशादिवझेदाभेदावेकस्मिन्वस्तुनि सङ्गच्छेते । अथोच्येत सर्व हि वस्तुजातं प्रतीतिव्यवस्थाप्यम्। सर्व च भिन्नाभिन्न प्रतीयते। कारणात्मना जात्यात्मना चाभिन्नम् । कार्यात्मना व्यक्त्यात्मना च भिन्नम् । छायातपादिषु विरोधस्सहानवस्थानलक्षणो भिन्नाधारत्वरूपश्च । कार्यकारणयोर्जातिव्यक्त्योश्च तदुभयमपि नोपलभ्यते । प्रत्युत एकमेव वस्तु द्विरूपं प्रतीयते ; यथा 'मृदयं घटः' 'खण्डो गौः' 'मुण्डो गौः' इति । न चैकरूपं किंचिदपि वस्तु २लोके दृष्टचरम् । न च तृणादेवलनादिवदभेदो भेदोपमर्दी दृश्यत इति न वस्तुविरोधः; मृत्सुवर्णगवावाद्यात्मनाऽवस्थितस्यैव घटमकुटखण्डबडबाधात्मना चावस्थानात् । न चाभिन्नस्य भिन्नस्य च वस्तुनोऽभेदो भेदश्च एक एवाकार इतीश्वराज्ञा । प्रतीतत्वादैकरूप्यं चेत् - प्रतीतत्वादेव भिन्नाभिन्नत्वमिति द्वैरूप्यमप्यभ्युपगम्यताम् । न हि विष्फारिताक्षः पुरुषो घटशरावखण्डमुण्डादिषु वस्तुषूपलभ्यमानेषु 'इयं मृत् ,अयं घटः,इदं गोत्वम् इयं व्यक्ति इति विवेक्तुं शक्नोति । अपि तु 'मृदयं घटः, खण्डो गौः' इत्येव प्रत्येति । अनुत्तिबुद्धिबोध्यं कारण१. केन - १. ख - ५॥
| २. लौकिकैर्दृष्ट. पा
For Private And Personal Use Only