________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
समन्वयाधिकरणम्. बुद्धे क्षेमप्रापणं तच्छास्त्रैर्विप्रतिषिद्धम् । बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत । एतेन परं व्याख्यातम्" इति । अनेन ज्ञानमालान्मोक्षश्च निरस्तः । अतस्सकलभेदनिवृत्तिरूपा मुक्तिींवतो न संभवति ॥
तस्माद्ध्याननियोगेन ब्रह्मापरोक्षज्ञानफलेनैव बन्धनिवृत्तिः। न च नियोगसाध्यत्वे मोक्षस्यानित्यत्वप्रसक्तिः, प्रतिबन्धनिवृत्तिमात्रस्यैव साध्यत्वात् । किंच-न नियोगेन साक्षात् बन्धनिवृत्तिः क्रियते; किन्तु निष्पपञ्चज्ञानकरसब्रह्मापरोक्ष्यज्ञानेन । नियोगस्तु तदापरोक्ष्यज्ञानं जनयति॥
कथं नियोगस्य ज्ञानोत्पत्तिहेतुत्वमिति चेत् कथं वा भवतोऽनभिसंहितफलानां कर्मणां वेदनोत्पत्तिहेतुत्वम्।मनोनैर्मल्यद्वारेणेति चेत्ममापि तथैव। मम तु निर्मले मनसि शास्त्रेण ज्ञानमुत्पाद्यते। तव तु नियोगेन मनसि निर्मले ज्ञानसामग्री वक्तव्येति चेत् ध्याननियोगनिर्मलं मन एव साधनमिति ब्रूमः। केनावगम्यत इति चेत् भवतो वा कर्मभिमनो निर्मलं भवति, निर्मले मनसि श्रवणमनननिदिध्यासनैस्सकलेतरविषयविमुखस्यैव शास्त्रं निवर्तकज्ञानमुत्पादयतीति केनावगम्यते?।१"विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" २" श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" ३" ब्रह्म वेद ब्रह्मैव भवति" इत्यादिभिश्शास्त्रैरिति चेत्-ममापि *"श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" ४" ब्रह्मविदामोति परम्" ५" न चक्षुषा गृह्यते नापि वाचा" ६" मनसा तु विशुद्धेन" ७"हृदा मनीषा मनसाभिकप्तः" इत्यादिभिश्शास्त्राननियोगेन मनो निर्मलं भवति । निर्मलं च मनो ब्रह्मापरोक्षज्ञानं जनयतीत्यवगम्यते इति ९निरवद्यम् ॥
१. वृ-६. अ-४, ब्रा-२२॥ २.३.६.अ-५. ८, इत्यादिशास्त्रैः. पा॥ ब्रा-६॥ ३. मुण्ड-३. मु-२. ख-९॥ ९. 'इतिशब्दो नानन्तरवाक्यशेषः' इति
४. ते, आ. १-अनु॥ ५. मुण्ड-३. मु-१. श्रुतप्रकाशिकापर्यालोचनया भाष्ये 'निरवद्यम् ख-८॥ ६॥ ७. कठ-६. वल्ली-९॥ इति पाठोऽधिक इति प्रतिभाति ॥
For Private And Personal Use Only