________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शारीरकमीमांसाभाष्ये
Acharya Shri Kailassagarsuri Gyanmandir
१४८
लमिदं वाक्यान्तरजन्यं ज्ञानं तत्त्वमस्यादिवाक्यजन्यज्ञानेनैकविषयम्, भिन्नविषयं वा । एकविषयत्वे तदेवेतरेतराश्रयत्वम् । भिन्नविषयत्वे ध्यानेन तदौन्मुख्यापादनासंभवः । किञ्च ध्यानस्य ध्येयध्यानाद्यनेकप्रपञ्चापेक्षत्वान्निष्प्रपञ्चब्रह्मात्मैकत्वविषयवाक्यार्थज्ञानोत्पत्तौ दृष्टद्वारेण नोपयोग इति वाक्यार्थज्ञानमात्रादविद्यानिवृतिं वदतः श्रवणमनननिदिध्यासनविधीनामानर्थक्यमेव ॥
[अ. १.
For Private And Personal Use Only
यतो वाक्यादापरोक्ष्यज्ञानासम्भवाद्वाक्यार्थज्ञानेनाविद्या न निवर्तते; तत एव जीवन्मुक्तिरपि दूरोत्सारिता । का चेयं जीवन्मुक्तिः ? | स शरीरस्यैव मोक्ष इति चेत्- ' माता मे वन्ध्या' इतिवदसङ्गतार्थ वचः; यतस्सशरीरत्वं बन्धः, अशरीरत्वमेव मोक्ष इति त्वयैव श्रुतिभिरुपपादितम् । अथ सशरीरत्वप्रतिभासे वर्तमाने यस्यायं प्रतिभासो मिथ्येति प्रत्ययः, तस्य सशरीरत्वनिवृत्तिरिति । न, मिथ्येति प्रत्ययेन सशरीरत्वं निवृत्तं चेत् कथं सशररिस्य मुक्ति: । अजीवतोऽपि मुक्तिसशरीरत्वमिथ्याप्रतिभासनिवृत्तिरेवेति कोऽयं जीवन्मुक्तिरिति विशेषः । अथ सशरीरत्वप्रतिभासो बाधितोऽपि यस्य द्विचन्द्रज्ञानवदनुवर्तते, स जीवन्मुक्त इति चेत् न, ब्रह्मव्यतिरिक्तसकलवस्तुविषयत्वाद्वाधकज्ञानस्य । कारणभूताविद्याकर्मादिदोषस्सशरीरत्वप्रतिभासेन सह तेनैव बा - धित इति बाधितानुवृत्तिर्न शक्यते वक्तुम् । द्विचन्द्रादौ तु तत्प्रतिभासहेतुभूतदोषस्य बाधकज्ञान भूतचन्द्रैकत्वज्ञानाविषयत्वेनावाधितत्वात्, द्विचन्द्रप्रतिभासानुवृत्तिर्युक्ता । किञ्च २" तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये " इति सद्विद्यानिष्ठस्य शरीरपातमात्रमपेक्षते मोक्ष इति वदन्तीयं श्रुतिः जीवन्मुक्तिं वारयति । सैषा जीवन्मुक्तिरापस्तम्बेनापि निरस्ता - २" वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् । १. द्विचन्द्रज्ञानादौ पा॥। २. छा, ६ - प्र. १४- खं. २ ॥ ३. आपस्तम्बधर्मे. २- प्र. ९ - पटल.२१ - ख॥