SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] समन्वयाधिकरणम्. १४३ करणशरीरनिष्पत्तितदनुग्रहकार्यभेदभिन्ना। उभयविधा च न सम्भवति। नहि मुद्राभिघातादिवत् कृत्स्नस्य प्रपञ्चस्य निवर्तकः कोऽपि दृश्यत इति दृष्टार्थी न सम्भवति । नापि निष्पन्नस्य करणस्य कार्योत्पत्तावनुग्रहस्सम्भवति, अनुग्राहकांशसद्भावेन कृत्स्नमपश्चनिवृत्तिरूपकरणस्वरूपासिद्धेः। ब्रह्मणोऽद्वितीयत्वज्ञानं प्रपञ्चनिवृत्तिरूपकरणशरीरं निष्पादयतीति चेत्ते नैव प्रपञ्चनिवृत्तिरूपो मोक्षस्सिद्ध इति न करणादिनिष्पाधम् अवशिष्यत इति पूर्वमेवोक्तम्। अभावरूपत्वे १चाभावादेव न करणशरीरं निष्पादयति । नाप्यनुग्राहकः । अतो निष्पपञ्चब्रह्मविषयो विधिर्न संभवति ॥ ___अन्योऽप्याह-यद्यपि वेदान्तवाक्यानां न परिनिष्पन्नब्रह्मस्वरूपपरतया प्रामाण्यम् । तथाऽपि ब्रह्मस्वरूपं सिध्यत्येव । कुतः? ध्यानविधिसामर्थ्यात्। एवमेव हि समामनन्ति-२'आत्मा वा अरे द्रष्टव्यः...निदिध्यासितव्यः"३ “य आत्मा अपहतपाप्मा सोऽन्वेष्टव्यस्स विजिज्ञासितव्यः" "आत्मेत्येवोपासीत" *"आत्मानमेव लोकमुपासीत" इति। अत्र ध्यानविषयो हि नियोगस्वविषयभूतध्यानं ध्येयैकनिरूपणीयम् इति ध्येयमाक्षिपति । स च ध्येयस्ववाक्यनिर्दिष्ट आत्मा । स किंरूप इत्यपेक्षायां तत्स्वरूपविशेषसमर्पणद्वारेण ५'सत्यं ज्ञानमनन्तं ब्रह्म" ६"सदेव सोम्येदमग्र आसीत्" इत्येवमादीनां वाक्यानां ध्यानविधिशेषतया प्रामाण्यम्-इति विधिविषयभूतध्यानशरीरानुप्रविष्टब्रह्मस्वरूपेऽपि तात्पर्यमस्त्येव । अतः *"एकमेवाद्वितीयम्" ७"तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" ८"नेह नानाऽस्ति किंचन" इत्यादिभिर्ब्रह्मस्वरूपमेकमेव सत्यं तद्व्यतिरिक्तं सर्व मिथ्येत्यवगम्यते । प्रत्यक्षादिभिश्रृंदावलम्बिना च १.अभावत्वादेव.पा॥ २. वृ. ४-अ.४-ब्रा ५॥ *६. छा. ६-प्र. २-ख. १॥ ३. छा. ८-प्र. ७. ख, १॥ ७. छा. ६-प्र. ८-ख, ७॥ *४. बृ. ३. अ. ४-ब्रा. ७. १५॥ ८. कठ, ४-वल्ली. ११॥ ५. तै. आन. १-अनु॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy