________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४२
शारीरकमीमांसाभाष्ये
[अ. १.
व्यरूपत्वात्,
Tara नियोगविषयः । ब्रह्मैवेति चेत न, तस्य नित्यत्वेनाभअभावार्थत्वाच्च । निष्प्रपञ्चं ब्रह्म साध्यमिति चेत्-सात्वेऽपि फलत्वमेव । अभावार्थत्वान्न विधिविषयत्वम् । साध्यत्वश्च कस्य । किं ब्रह्मणः ?, उत प्रपञ्चनिवृत्तेः । न तावद्ब्रह्मणः सिद्धत्वात् ; अनित्यत्वप्रसक्तेश्च । अथ प्रपञ्चनिवृत्तेः । न तर्हि ब्रह्मणस्साध्यत्वम् । प्रपञ्चनिवृत्तिरेव विधिविषय इति चेत् न, तस्याः फलत्वेन विधिविषयत्वायोगात् । प्रपञ्चनिवृत्तिरेव हि मोक्षः । स च फलम् । अस्य च नियोगविषयत्वे नियोगात्प्रपञ्चनिवृत्तिः प्रपञ्चनिवृत्त्या नियोगः- इतीतरेतराश्रयत्वम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
अपिच किं निवर्तनीयः प्रपञ्चः मिथ्यारूपः सत्यो वा । मि थ्यारूपत्वे ज्ञाननिवर्त्यत्वादेव नियोगेन न किंचित्प्रयोजनम् | नियोगस्तु निवर्तकज्ञानमुत्पाद्यतद्वारेण प्रपञ्चस्य निवर्तक इति चेत्-तत्स्ववाक्यादेव जातमिति नियोगेन न प्रयोजनम् । वाक्यार्थज्ञानादेव ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य मिथ्याभूतस्य प्रपञ्चस्य बाधितत्वात् सपरिकर - स्य नियोगस्यासिद्धिच । मपञ्चस्य निवर्त्यत्वे प्रपञ्चवनिवर्तको नियोगः किं ब्रह्मस्वरूपमेव उत तद्व्यतिरिक्तः । यदि ब्रह्मस्वरूपमेव निवर्तकस्य नित्यतया निवर्त्यप्रपञ्चसद्भाव एव न सम्भवति । नित्यत्वेन नियोगस्य विषयानुष्ठान साध्यत्वं च न घटते । अथ ब्रह्मस्वरूपव्यतिरिक्तः । तस्य कृत्स्त्रप्रपञ्चनिवृत्तिरूपविषयानुष्ठानसाध्यत्वेन प्रयोक्ता च नष्ट इत्याश्रयाभावादसिद्धिः । प्रपञ्चनिवृत्तिरूपविषयानुष्ठानेनैव ब्रह्मस्वरूपव्यतिरितस्य कृत्स्नस्य निवृत्तत्वात् न नियोगनिष्पाद्यं मोक्षाख्यं फलम् । किंच -प्रपञ्चनिवृत्तेर्नियोग करणस्य इतिकर्तव्यताऽभावात्, अनुपकृतस्य च करणत्वायोगान्न करणत्वम् । कथम् इतिकर्तव्यताऽभाव इति चेत्इत्थम् - अस्येतिकर्तव्यता भावरूपा ? अभावरूपा ? वा । भावरूपा च
१. नित्यत्वेनाभाव्यरूप पा २. ब्रह्मव. पा
३. निवर्तकं. पा ॥
For Private And Personal Use Only