________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१. सतोऽप्यर्थस्याज्ञातस्य. पा २. प्रपञ्चविलय. पा।।
पा १.]
समन्वयाधिकरणम्.
१४१
दृष्ट इत्युक्तम् । तत्र किं पुत्रजन्माद्यर्थात्पुरुषार्थावाप्तिः ? । उत तज्ज्ञानादिति विवेचनीयम् । सतोऽप्यज्ञातस्यार्थस्या पुरुषार्थत्वेन तज्ज्ञानादिति चेत् — सत्यप्यर्थे ज्ञानादेव पुरुषार्थस्सिध्यतीत्यर्थपरत्वाभावेन प्रयोजनपर्यवसायिनोऽपि शास्त्रस्य नार्थसद्भावे प्रामाण्यम् । तस्मात्सर्वत्र प्रवृत्तिनिवृत्तिपरत्वेन ज्ञानपरत्वेन वा प्रयोजनपर्यवसानमिति कस्यापि वाक्यस्य परिनिष्पन्ने वस्तुनि तात्पर्यासम्भवान्न वेदान्ताः परिनिष्पन्नं ब्रह्मप्रतिपादयन्ति ||
अव कचिदाह वेदान्तवाक्यान्यपि कार्यपरतयैव ब्रह्मणि प्रमाणभावमनुभवन्ति - कथं निष्प्रपञ्चमद्वितीयं ज्ञानैकरसं ब्रह्म अनाद्यविद्यया प्रपञ्चतया प्रतीयमानं निष्प्रपञ्चं कुर्यादिति ब्रह्मणः प्रपञ्चवि - लयद्वारेण विधिविषयत्वम् — इति । कोऽसौ द्रष्टृदृश्यरूपप्रपञ्च र प्रविलयद्वारेण साध्यज्ञानैकरसब्रह्मविषयो विधिः । । ३" न दृष्टेद्रशरं पश्येः । न मतेर्मन्तारं मन्वीथाः " ४इत्यादिः । द्रष्टदृश्यरूपभेदशून्यं दृशिमात्रं ब्रह्म कुर्यादित्यर्थः। स्वतस्सिद्धस्यापि ब्रह्मणो निष्प्रपञ्च तारूपेण कार्यत्वमविरुद्धम्इति ॥ तदयुक्तम् नियोगवाक्यार्थवादिना हि नियोगः, नियोज्यविशेषणम्, विषयः, करणम्, इतिकर्तव्यता, प्रयोक्ता च वक्तव्याः । तत्र हि नियोज्यविशेषणमनुपादेयम् । तच्च निमित्तं फलमिति द्विधा । अत्र किं नियोज्यविशेषणम्, तच्च किं निमित्तं फलं वेति विवेचनीयम् | ब्रह्मस्वरूपयाथात्म्यानुभवश्चेन्नियोज्यविशेषणम् तर्हि न तन्निमित्तम्, जीवनादिवत्तस्यासिद्धत्वात् । निमित्तत्वे च तस्य नित्यत्वेनापवर्गोत्तरकालमपि जीवननिमित्ताग्निहोत्रादिवत् नित्यतद्विषयानुष्ठानप्रसङ्गः । नापि फलं नैयोगिकफलत्वेन स्वर्गादिवदनित्यत्वप्रसङ्गात् ||
;
Acharya Shri Kailassagarsuri Gyanmandir
३. बृ. ५-अ, ४ - बा. २ वा ॥
४. इत्येवमादि: पा|| ५. साध्यत्वमवि. पा
For Private And Personal Use Only