SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० शारीरकमीमांसाभाष्ये बहु स्यां प्रजायेयेति तत्तेजो सृजत" १"ब्रह्म वा इदमेकमेवाग्र आसीत्" २“आत्मा वा इदमेक एवाग्र आसीत्" ३'तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः" ४"एको ह वै नारायण आसीत्" ५"सत्यं ज्ञानमनन्तं ब्रह्म" ६ "आनन्दो ब्रह्म" इत्येवमादिः॥ न च व्युत्पत्तिसिद्धपरिनिष्पन्नवस्तुप्रतिपादनसमर्थानां पदसमुदायानामखिलजगदुत्पत्तिस्थितिविनाशहेतुभूताशेषदोषप्रत्यनीकापरिमितोदारगुणसागरानवधिकातिशयानन्दस्वरूपे ब्रह्मणि समन्वितानां प्रवृत्तिनिवृत्तिरूपप्रयोजनविरहादन्यपरत्वम् , स्वविषयावबोधपर्यवसायित्वात्सर्वप्रमाणानाम् । नच प्रयोजनानुगुणा प्रमाणप्रवृत्तिः । प्रयोजनं हि प्रमाणानुगुणम् । न च प्रवृत्तिनिवृत्त्यन्वयविरहिणः प्रयोजनशून्यत्वम् , पुरुषार्थान्वयमतीः । तथा स्वरूपपरेष्वपि 'पुत्रस्ते जातः, नायं सर्पः' इत्यादिषु हर्षभयनिवृत्तिरूपप्रयोजनवत्वं दृष्टम् ।। अलाह-न वेदान्तवाक्यानि ब्रह्म प्रतिपादयन्ति प्रवृत्तिनिवृत्यन्वयविरहिणः शास्त्रस्यानर्थक्यात्। यद्यपि प्रत्यक्षादीनि वस्तुयाथात्म्यावबोधे पर्यवस्यन्ति ; तथाऽपि शास्त्रं प्रयोजनपर्यवसाय्येव । न हि लोकवेदयोः प्रयोजनरहितस्य कस्यचिदपि वाक्यस्य प्रयोग उपलब्धचरः । न च किश्चित् प्रयोजनमनुद्दिश्य वाक्यप्रयोगः श्रवणं वा सम्भवति । तच्च प्रयोजनं प्रवृत्तिनिवृत्तिसाध्येष्टानिष्टमाप्तिपरिहारात्मकमुपलब्धम्'अर्थार्थी राजकुलं गच्छेत् ' 'मन्दाग्निर्नाम्बु पिवेत्' ७ स्वर्गकामो यजेत' 'न कलङ्गं भक्षयेत्' इत्येवमादिषु । यत्पुनस्सिद्धवस्तुपरेष्वपि 'पुत्रस्ते जातः, नायं सो रज्जुरेषा' इत्यादिषु हर्षभयनिवृत्तिरूपपुरुषार्थान्वयो १. बृ. ३-अ. २.बा. ११॥ ५. तै-आन. १-अनु।। ६. तै-भृ. ६ अनु।। २. ऐतरेय. १-अ. १-ख. १॥ ७. यजुषि. २. कां. ५. प्रश्न. ५-अनु।। ३. तै-आन. १. अनु।। ८. इत्यादिपु. पा॥ ४. महोपनिषत् , १. अ, १. वा।। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy