________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
समन्वयाधिकरणम्. शक्तस्सर्वेश्वरोऽनुमानसिद्धइति तस्मिन् १"यतो वा इमानि भूतानि" इत्यादिवाक्यं न प्रमाणमिति॥
राद्धान्तस्तु-जगतः कार्यत्वेऽपि एकदैवैकेनैव कृत्स्नं जगनिर्मितमित्यत्र प्रमाणाभावात् , क्षेत्रज्ञानामेव विलक्षणपुण्यानां ज्ञानशक्तिवैचित्र्यसम्भावनया कदाचित् कस्यचिजगदेकदेशनिर्माणसामर्थ्यसम्भवात् , तदतिरिक्तपुरुषानुमानं न सम्भवतीति शास्त्रैकप्रमाणकत्वात् ब्रह्मणस्तत्प्रतिपादकत्वेन तस्मिन् *" यतो वा इमानि भूतानि" इत्यादिवाक्यं प्रमाणमिति । २शास्त्रं योनिः ३यस्य कारणं प्रमाणं तद्ब्रह्म शास्त्रयोनि, प्रमाणान्तराविषयत्वेन शास्त्रै. कप्रमाणकत्वाब्रह्मणः। तस्मिन् *"यतो वा इमानि" इत्यादिवाक्यं ४प्रमाणमिति सूत्रार्थः॥
इति वेदान्तदीपे शास्त्रयोनित्वाधिकरणम् ॥ ३ ॥
.............
--( श्रीशारीरकमीमांसाभाष्ये समन्वयाधिकरणम् ॥ ४ ॥ )....
यद्यपि प्रमाणान्तरागोचरं ब्रह्म । तथापि प्रवृत्तिनिवृत्तिपरत्वाभावेन सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयतीत्याशङ्कयाह
तत्तु समन्वयात् । १।१।४॥ प्रसक्ताशङ्कानिवृत्त्यर्थस्तु शब्दः। तत्-शास्त्रप्रमाणकत्वं ब्रह्मणस्सम्भवत्येव । कुतः ? समन्वयात् परमपुरुषार्थतयाऽन्वयस्समन्वयः ; परम पुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयात् ।।
६एवमिव समन्वितो ह्यौपनिषदः पदसमुदायः-*"यतो वा इमानि भूतानि जायन्ते" ७"सदेव सोभ्येदमन आसीदेकमेवाद्वितीयम् । तदैक्षत
--------
-
---- -
---------
----..........
* १. तै. भृ. १-अनु। २. सूत्रार्थ:-- शास्त्र. पा|| ३. कारणं यस्य. पा॥ ४. प्रमाणमिति. पा॥
५. पुरुषार्थस्यैव. पा॥ ६. एवमेव. पा॥ ७. छा. ६-प्र. २-ख. १; ३॥
For Private And Personal Use Only